ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम्। इमां वसुमतीं कुर्यान्निः शेषामिति मे मतिः
द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम्। नाश्वत्थाम्नः समं भीष्म न च तौ स्तोतुमिच्छसि
पृथिव्यां सागरान्तायां यो वैप्रतिसमो भवेत्। दुर्योधनं त्वं राजेन्द्रमतिक्रम्य महाभुजम्
जयद्रथं च राजानं कृतास्त्रं दृढविक्रमम्। द्रुमं किम्पुरुषाचार्यं लोके प्रथितविक्रमम्। अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्
वृद्धं च भरताचार्यं तथा शारद्वतं कृपम्। अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्
धनुर्धराणां प्रवरं रुक्मिणं पुरुषोत्तमम्। अतिक्रम्य महावीर्यं किं प्रशंससि केशवम्
भीष्मकं च महावीर्यं दन्तवक्त्रं च भूमिपम्। भगदत्तं यूपकेथु जयत्सेनं च मागधम्
विराटद्रुपदौ चोभौ शकुनिं च बहद्बलम्। विन्दानुविन्दावावन्त्यौ पाण्ड्यं श्वेतमथोत्तमम्
शङ्खं च सुमहाभागं वृषसेनं च मानिनम्। एकलव्यं च विक्रान्तं कालिङ्गं च महारथम्
अतिक्रम्य महावीर्यं किं प्रशंसति केशवम्। शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान्। स्तवाय यदि ते बुद्धिर्वर्तते भीष्म वसुधाधिपान्
किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप। पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम्
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः। अनाचरितमार्याणामिति ते भीष्म न श्रुतम्
यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः। केशवं तच्च ते भीष्म न कश्चिदनुमन्यते
कथं भोजस्य पुरुषे वत्सपाले दुरात्मनि। समावेशयसे सर्वं जगत्केवलकाम्यया
अथ चैषा न ते बुद्धिः प्रकृतिं याति भारत। मयैव कथितं पूर्वं कुलिङ्गशकुनिर्यथा
कुलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे। भी तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः
मा साहसमितीदं सा सततं वाशते किल। साहसं चात्मनातीव चरन्ती नावबुध्यते
सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः। दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना
इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम्। तद्वत्त्वमप्यधर्मिष्ठ सदा वाचः प्रभाषसे
इच्छतां भूमिपालानां भीष्म जीवस्यसंशयम्। लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः
ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः। उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः
इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम्। सोऽहं न गणयाम्येतांस्तृणेनापि नराधिपान्
एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुशुर्नृपाः। केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे
केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य यद्वचः। पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम्
हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपाः। सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना
इति तेषां वचः श्रुत्वा ततः कुरुपितामहः। उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान्
उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये। यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः
पशुवद्घातनं वा मे दहनं वा कटाग्निना। क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम्
एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः। यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम्
कृष्णमाह्वयतामद्य युद्धे चक्रगदाधरम्। यादवस्यैव देवस्य देहं विशतु पातितः