याथातथ्येन भगवान्देवो वा यदि वेतरः। श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति
अन्तर्भूतं ततो भूतमुवाचेदं पुनर्वचः। यस्योत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ। तृतीयमेतद्बालस्य ललाटस्थं तु लोचनम्
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति। त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम्
पृथिव्यां पार्थिवाः सर्वे अभ्यागच्छन्दिदृक्षवः। तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः
एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा। एवं राजसहस्राणा पृथक्त्वेन यथाक्रमम्
शिशुरङ्के समारूढो न तत्प्राय निदर्शनम्। एतदेव तु संश्रुत्य द्वारवत्यां महाबलौ
ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ। यादवौ यादवीं द्रुष्टुं स्वसारं तौ पितुस्तदा
अभिवाद्य यथान्यायं यथाश्रेष्ठं नृपं च ताम्। कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ
साऽभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः। पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम्
न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ। पेततुस्तच्च नयनं न्यमज्जत ललाटजम्
तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत। ददस्व मे वरं कृष्ण भयार्ताया महाभुज
त्वं ह्यार्तानां समाश्वासो भीतानामभयप्रदः। एवमुक्तस्ततः कृष्णः सोऽब्रवीद्यदुनन्दनः
मा भैस्त्वं देवि धर्मज्ञे न मत्तोऽस्ति भयं तव। ददामि कं वरं किं च करवाणि पितृष्वसः
शक्यं वा यदि वाऽशक्यं करिष्याणि वचस्तव। एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम्
शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल। मत्कृते यदुशार्दूल विद्ध्येनं मे वरं प्रभो
अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः। पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः
स जानन्नात्मनो मृत्युं कृष्णं यदुसुखावहम्'। एवमेष नृपः पापः शिशुपाः सुमन्दधीः। त्वां समाह्वयते वीर गोविन्दवरदर्पितः
नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम्। नूनमेव जगद्भर्तुः कृष्णस्यैव विनिश्चयः
को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः। क्षेप्तुं कालपरीतात्मा यथैष कुलपांसनः
एष ह्यस्य महाबाहुस्तेर्जोशश्च हरेर्ध्रुवम्। तमेव पुनरादातुं कुरुतेऽत्र मतिं हरिः
येनैष कुरुशार्दूल शार्दूल इव चेदिराट्। गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन्
ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा। उवाच चैन सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम्
द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः। यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः
संस्तवे चमनो भीष्म परेषां रमते यदि। तदा संस्तुहि राज्ञस्त्वमिमं हित्वा जनार्दनम्
दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम्। जायमानेन येनेयभवद्दारिता मही
वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले। स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम्
यस्येमे कुण्डले दिव्ये सहजे देवनिर्मिते। कवचं च महाबाहो बालार्कसदृशप्रभम्
वासवप्रतिमो येन जरासन्धोऽतिदुर्जयः। विजितो बाहुयुद्धेन देहभेदं च लम्भितः
द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ। स्तुहि स्तुत्यावुभौ भीष्म सततं द्विजसत्तमौ