तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु। चकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान्
तथा पद्मप्रतीकाशे स्वभावायतविस्तृते। भूयः क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः
त्रिशिखां भ्रकुटीं चास्य ददृशुः सर्वपार्थिवाः। ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव
दन्तान्सन्दशतस्तस्य कोपाद्ददृशुराननम्। युगान्ते सर्वभूतानि कालस्येव जिघत्सतः
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विन्। भीष्म एव महाबाहुर्महासेनमिवेश्वरः
तस्व भीमस्य भीष्मेण वार्यमाणस्य भारत। गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः
नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः। समुद्वृत्तो घनापाये वेलामिव महोदधिः
शिशुपालस्तु सङ्क्रुद्धे भीमसेने जनाधिप। नाकम्पत तदा वीरः पौरुषे व्यवस्थितः
उत्पतन्तं तु वेगेन पुनः पुनररिन्दमः। न स तं चिन्तयामास सिंहः क्रुद्धो मृगं यथा
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान्। भीमसेनमभिक्रुद्धं दृष्ट्वा भीमपराक्रमम्
मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपः। मत्प्रभावविनिर्दग्धं पतङ्गमिव वह्निना
ततश्चेदिपतेर्वाक्यं श्रुत्वा तत्कुरुसत्तमः। भीमसेनमुवाचेदं भीष्मे मतिमतां वरः
नैषा चेदिपतेर्बुद्धिर्यत्त्वामाह्वयतेऽच्युतम्। भीमसेन महाबाहो कृष्णस्यैव विनिश्चयः
चेदिराजकुले जातख्यक्ष एष चतुर्भुजः। रासभारावसदृशं ररास च ननाद च
तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ। वैकृतं तस्यत तौ दृष्ट्वा त्यागायाकुरुतां मतिम्
ततः सभार्यं नृपतिं सामात्यं सपुरोहितम्। चिन्तासंमूढहृदयं वागुवाचाशरीरेणी
एष ते नृपते पुत्रः श्रीमाञ्जातो बलाधिकः। तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम्
न च वै तस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः। यश्च शस्त्रेण हन्ताऽस्य स चोत्पन्नो नराधिप
संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः। पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत्
येनेदमीरितं वाक्यं ममैतं तनयं प्रति। प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः
याथातथ्येन भगवान्देवो वा यदि वेतरः। श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति
अन्तर्भूतं ततो भूतमुवाचेदं पुनर्वचः। यस्योत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ
पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ। तृतीयमेतद्बालस्य ललाटस्थं तु लोचनम्
निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति। त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम्
पृथिव्यां पार्थिवाः सर्वे अभ्यागच्छन्दिदृक्षवः। तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः
एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा। एवं राजसहस्राणा पृथक्त्वेन यथाक्रमम्
शिशुरङ्के समारूढो न तत्प्राय निदर्शनम्। एतदेव तु संश्रुत्य द्वारवत्यां महाबलौ
ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ। यादवौ यादवीं द्रुष्टुं स्वसारं तौ पितुस्तदा
अभिवाद्य यथान्यायं यथाश्रेष्ठं नृपं च ताम्। कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ
साऽभ्यर्च्य तौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः। पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम्