बाला यूयं न जानीध्वं धर्मसूक्ष्मं विहङ्गमाः। धर्मं यः कुरुते लोके सततं शुभबुद्धिना। न चायुषोऽन्ते स्वं देहं त्यक्त्वा स्वर्गं स गच्छति
तथाऽहमपि च त्यक्त्वा काले देहमिमं द्विजाः। स्वर्गलोकं गमिष्यामि इयं धर्मस्य वै गतिः
एवं धर्मकथां चक्रे स हंसः पक्षिणां भृशम्। पक्षिणः शुश्रुवुर्भीष्म सततं धर्ममेव ते
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः। अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम
ते च तस्य समभ्याशे निक्षिप्याण्डानि सर्वशः। समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः
तेषामण्डानि सर्वेषां भक्षयामास पापकृत्। स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि
ततः प्रक्षीयमाणेषु तेषु तेष्वण्डजोऽपरः। अशङ्कत महाप्राज्ञः स कदाचिद्ददर्श ह
ततः सङ्कथयामास दृष्ट्वा हंसस्य किल्बिषम्। तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम्
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समीपगाः। निजघ्नस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह
एवं त्वां हंसधर्माणमपीमे वसुधाधिपाः। निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तं यथाण्डजम्
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः। भीष्म यां तां च ते सम्यक्वथयिष्यामि भारत
अन्तरात्मन्यभिहते रौषि पत्ररथाशुचि। अण्डभक्षणकर्मैतत्तव वाचमतीयते
स मे बहुमतो राजा जरासन्धो महाबलः। योऽनेन युद्धं नेयेष दाक्षोऽयमिति संयुगे
केशवेन कृतं कर्म जरासन्धवधे तदा। भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते
उद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना। दृष्टः प्रभावः कृष्णेन जरासन्धस्य भूपतेः
येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमभिजानता। प्रेषितं पाद्यमस्मै तद्दातुमग्रे दूरात्मने
भुज्यतामिति तेनोक्ताः कृष्णबीमधनञ्जयाटः। जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम्
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे। कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति
इदं त्वाश्चर्यभूतं मे यदिभे पाण्डवास्त्वया। अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति
अथवा नैतदाश्चर्यं येषां त्वमसि भारत। स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः
तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु। चकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान्
तथा पद्मप्रतीकाशे स्वभावायतविस्तृते। भूयः क्रोधाभिताम्राक्षे रक्ते नेत्रे बभूवतुः
त्रिशिखां भ्रकुटीं चास्य ददृशुः सर्वपार्थिवाः। ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव
दन्तान्सन्दशतस्तस्य कोपाद्ददृशुराननम्। युगान्ते सर्वभूतानि कालस्येव जिघत्सतः
उत्पतन्तं तु वेगेन जग्राहैनं मनस्विन्। भीष्म एव महाबाहुर्महासेनमिवेश्वरः
तस्व भीमस्य भीष्मेण वार्यमाणस्य भारत। गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः
नातिचक्राम भीष्मस्य स हि वाक्यमरिन्दमः। समुद्वृत्तो घनापाये वेलामिव महोदधिः
शिशुपालस्तु सङ्क्रुद्धे भीमसेने जनाधिप। नाकम्पत तदा वीरः पौरुषे व्यवस्थितः
उत्पतन्तं तु वेगेन पुनः पुनररिन्दमः। न स तं चिन्तयामास सिंहः क्रुद्धो मृगं यथा
प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान्। भीमसेनमभिक्रुद्धं दृष्ट्वा भीमपराक्रमम्