व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत्। सर्वं तदनपत्यस्य मोघं भवति निश्चयात्
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात्। हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम्
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा। भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा। धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति च
धर्म चरत माऽधर्ममिति तस्य वचः किल। पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः
हंसस्य तु वचः श्रुत्वा मुदिताः सर्वपक्षिणः। ऊचुश्चैव स्वगा हंसं परिवार्य च सर्वशः
कथयस्व भवान्सर्वं पक्षिणां तु समासतः। को हि नाम द्विजश्रेष्ठ ब्रूहि नो धर्म उत्तमः
प्रजास्वहिंसा धर्मो वै हिंसाऽधर्मः खगव्रजाः। एतदेवानुबोद्धव्यं धर्माधर्मः समासतः
वृद्धहंसवचः श्रुत्वा पक्षिणस्ते सुसंहिताः। ऊचुश्च धर्मलुब्धास्ते स्मयमाना इवाण्डजाः
धर्मं यः कुरुते नित्यं लोके धीरतरोऽण्डजः। स यत्र गच्छेद्धर्मात्मा तन्मे ब्रूहीह तत्त्वतः
बाला यूयं न जानीध्वं धर्मसूक्ष्मं विहङ्गमाः। धर्मं यः कुरुते लोके सततं शुभबुद्धिना। न चायुषोऽन्ते स्वं देहं त्यक्त्वा स्वर्गं स गच्छति
तथाऽहमपि च त्यक्त्वा काले देहमिमं द्विजाः। स्वर्गलोकं गमिष्यामि इयं धर्मस्य वै गतिः
एवं धर्मकथां चक्रे स हंसः पक्षिणां भृशम्। पक्षिणः शुश्रुवुर्भीष्म सततं धर्ममेव ते
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः। अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम
ते च तस्य समभ्याशे निक्षिप्याण्डानि सर्वशः। समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः
तेषामण्डानि सर्वेषां भक्षयामास पापकृत्। स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि
ततः प्रक्षीयमाणेषु तेषु तेष्वण्डजोऽपरः। अशङ्कत महाप्राज्ञः स कदाचिद्ददर्श ह
ततः सङ्कथयामास दृष्ट्वा हंसस्य किल्बिषम्। तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम्
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समीपगाः। निजघ्नस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह
एवं त्वां हंसधर्माणमपीमे वसुधाधिपाः। निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तं यथाण्डजम्
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः। भीष्म यां तां च ते सम्यक्वथयिष्यामि भारत
अन्तरात्मन्यभिहते रौषि पत्ररथाशुचि। अण्डभक्षणकर्मैतत्तव वाचमतीयते
स मे बहुमतो राजा जरासन्धो महाबलः। योऽनेन युद्धं नेयेष दाक्षोऽयमिति संयुगे
केशवेन कृतं कर्म जरासन्धवधे तदा। भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते
उद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना। दृष्टः प्रभावः कृष्णेन जरासन्धस्य भूपतेः
येन धर्मात्मनाऽऽत्मानं ब्रह्मण्यमभिजानता। प्रेषितं पाद्यमस्मै तद्दातुमग्रे दूरात्मने
भुज्यतामिति तेनोक्ताः कृष्णबीमधनञ्जयाटः। जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम्
यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे। कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति
इदं त्वाश्चर्यभूतं मे यदिभे पाण्डवास्त्वया। अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति
अथवा नैतदाश्चर्यं येषां त्वमसि भारत। स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः