बिभीषिकाभिर्बह्वीभिर्भीषयन्भीष्म पार्थिवान्। न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया। वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः
नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात्। तथाभूता हि कौरव्या येषां भीष्म त्वमग्रणीः
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः। त्वया कीर्तयताऽस्माकं भूयः प्रव्यथितं मनः
अवलिप्तस्य मूर्शस्य केशवं स्तोतुमिच्छतः। कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः। तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम्। तौ वाऽश्ववृषभौ भीष्ण यौ न युद्धविशारदौ
चेतनारहितं काष्ठं यद्यनेन निपातितम्। पादेन शकटं भीष्ण तत्र किं कृतमद्भुतम्
अर्कप्रमाणौ तौ वृक्षौ यद्यनेन निपातितौ। ' नागश्च दमितोऽनेन तत्र को विस्मयः कृतः
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः। तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि। इति ते भीष्ण शृण्वानाः परे विस्मयमागताः
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः। स चानेन हतः कंस इत्येतत्तु बलीयसः
स चानेन हतः कंस इत्येतत्तु महाद्भुतम्।। न ते श्रुतमिदं भीष्म नूनं कथयतां सताम्
यद्वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम।। स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च
इति सन्तोऽनुशासन्ति सञ्जना धर्मिणः सदा। भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम। अजानत इवाख्यासि संस्तुवन्कौरवाधम
गोघ्रः स्त्रीघ्नश्च सन्भीष्म त्वद्वाक्याद्यदि पूज्यते। एवम्भूतश्च यो भीष्म कथं संस्तवमर्हति
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः। सम्भावयति चाप्येवं त्वद्वाक्याच्च जनार्दनः। एवमेतत्सर्वमिति तत्सर्वं वितथं ध्रुवम्
आत्मानमात्मनाऽऽधातुं यदि शक्तो जनार्दनः। अकामयन्तं तं भीष्म कथं साध्विव पश्यसि
न गाथा गाथिनं शास्ति बहुचेदपि गायति। प्रकृतिं यान्ति भूतानि कुलिङ्गशकुनिर्यथा
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयटः। `नदीसुतत्वात्ते चित्तं चञ्चलं न स्थिरं स्मृतम्
अतः पापीयसी चैषां पाण्डवानामपीष्यते। येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः
धर्मवांस्त्वमधर्मज्ञः सतां मार्गादवप्लुतः। को हि धर्मिणमात्मानं जानञ्ज्ञानविदां वरः
कुर्याद्यथा त्वया भीषम कृतं धर्ममवेक्षता। चेत्त्वं धर्मं विजानासि यदि प्राज्ञा मतिस्तव
अन्यकामा हि धर्मज्ञा कन्यका प्राज्ञमानिना। अम्बा नामेति भद्रं ते कथं साऽपहृता त्वया
तां त्वयाऽपहृतां भीष्म कन्यां नैषितवान्नृपः। भ्राता विचित्रवीर्यस्ते सतां मार्गमनुस्मरन्
भार्ययोर्यस्य चान्येन मिषतः प्राज्ञमानिनः। तव जातान्यपत्यानि सज्जनाचरिते पथि
को हि धर्मोऽस्ति ते भीषम ब्रह्मचर्यमिदं वृथा। यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः
न त्वं तव धर्मज्ञ पश्याम्युपचरं क्वचित्। न हि ते सेविता वृद्धा य एवं धर्ममब्रवीः
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः। सर्वमेतदपत्यस्य कलां नार्हन्ति षोडशीम्