मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति। शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः
प्रसुप्ते हि यथा सिंहे श्वानस्तात समागताः। भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः
वृष्णिसिंहस्य सुप्तस्य तथाऽमी प्रमुके स्थिताः। भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य सन्निधौ
न हि सम्बुध्यते यावत्सुप्तः सिंह इवाच्युतः। ` तदिदं ज्ञातपूर्वं हि तव संस्तोतुमिच्छसि'। तेन सिंहीकरोत्येतानसिंहश्चेदिपुङ्गवः
पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः। सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम्
नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः। यदस्य शिशुपालस्य तेजस्तिष्ठति भारत
विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर। चेदिराजस्य कौन्तेय सर्वेषां च महीक्षितम्
आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा। तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा
चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः। प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर
इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः। भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत
बिभीषिकाभिर्बह्वीभिर्भीषयन्भीष्म पार्थिवान्। न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया। वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः
नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात्। तथाभूता हि कौरव्या येषां भीष्म त्वमग्रणीः
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः। त्वया कीर्तयताऽस्माकं भूयः प्रव्यथितं मनः
अवलिप्तस्य मूर्शस्य केशवं स्तोतुमिच्छतः। कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः। तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम्। तौ वाऽश्ववृषभौ भीष्ण यौ न युद्धविशारदौ
चेतनारहितं काष्ठं यद्यनेन निपातितम्। पादेन शकटं भीष्ण तत्र किं कृतमद्भुतम्
अर्कप्रमाणौ तौ वृक्षौ यद्यनेन निपातितौ। ' नागश्च दमितोऽनेन तत्र को विस्मयः कृतः
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः। तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि। इति ते भीष्ण शृण्वानाः परे विस्मयमागताः
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः। स चानेन हतः कंस इत्येतत्तु बलीयसः
स चानेन हतः कंस इत्येतत्तु महाद्भुतम्।। न ते श्रुतमिदं भीष्म नूनं कथयतां सताम्
यद्वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम।। स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च
इति सन्तोऽनुशासन्ति सञ्जना धर्मिणः सदा। भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम। अजानत इवाख्यासि संस्तुवन्कौरवाधम
गोघ्रः स्त्रीघ्नश्च सन्भीष्म त्वद्वाक्याद्यदि पूज्यते। एवम्भूतश्च यो भीष्म कथं संस्तवमर्हति
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः। सम्भावयति चाप्येवं त्वद्वाक्याच्च जनार्दनः। एवमेतत्सर्वमिति तत्सर्वं वितथं ध्रुवम्
आत्मानमात्मनाऽऽधातुं यदि शक्तो जनार्दनः। अकामयन्तं तं भीष्म कथं साध्विव पश्यसि
न गाथा गाथिनं शास्ति बहुचेदपि गायति। प्रकृतिं यान्ति भूतानि कुलिङ्गशकुनिर्यथा