सुरासुरमनुष्येषु नाभून्न भविता क्वचित्। यस्तामध्यवसद्राजा नान्यत्र मधुसूदनात्
भ्राजमानास्तु वै सर्वे वृष्ण्यन्धकमहारथाः। तेजिष्ठं प्रतिपत्स्यन्ते नाकपृष्टं गतासवः
एवमेव दशार्हाणां विधाय विधिना विधिम्। विष्णुर्नारायणः साक्षात्स्वस्थानं प्राप्स्यते ध्रुवम्
अप्रमेयोऽनियोज्यश्च यत्र कामगमो वशी। मोदते भगवान्प्रीतो वालः क्रीडानकैरिव
नैष गर्भत्वमापेदे न योन्यामावसत्प्रभुः। आत्मनस्तेजसा कृष्णः सर्वेषां कुरुते गतिम्
यथा बुद्बुद उत्थाय तत्रैव प्रविलीयते। चराचराणि भूतानि तथा नारायणे सदा
न प्रमातुं महाबाहुः शक्यो भारत केशवः। परं हि परतस्तस्माद्विश्वरूपान्न विद्यते
एवमुक्त्वा ततो भीष्णो विरराम महाबलः। व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः
केशवं केशिहन्तारमप्रमेयपराक्रमम्। पूज्यमानं मया यो वः कृष्णं न सहते नृपाः
सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम्। एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः
स एव हि मया वध्यो भविष्यति न संशयः। मतिमन्तश्च ये केचिदाचार्यं पितरं गुरुम्
अर्च्यमर्चितमर्घार्हमनुजानन्तु ते नृपाः। ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्
मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे। ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि
अदृश्यरूपा वाचश्चाप्यब्रुवन्साधुसाध्विति। अविध्यदजिनं कृष्णं भविष्यद्भूतजल्पनः
सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित्। उवाचाखिलभूतानां मध्ये स्पष्टतरं वचः
कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः। जीवन्मृतास्तु ते ज्ञेया न सभाष्याः कदाचना
पूजयित्वा च पूजार्हान्ब्रह्मक्षत्रविशेषवित्। सहदेवो नृणां देवः समापयत कर्म तत्
तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः। अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान्
स्थितः सेनापतिर्योऽहं मन्वध्वं किं तु साम्प्रतम्। युधि तिष्ठाम सन्नह्य समेतान्वृष्णिपाण्डवान्
इति सर्वान्समुत्साद्य राज्ञस्तांशअचेदिपुङ्गवः। यज्ञोपघाताय ततः सोऽमन्त्रतय राजभिः
तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः. समदृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा
युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम्। न स्याद्यथा तथा कार्यमेवं सर्वे तदाऽब्रुवन्
निष्कर्षान्निश्चयात्सर्वे राजानः क्रोधमूर्छिताः। अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात्
सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ। आमिषादपकृष्टानां सिहानामिव गर्जताम्
तं बलौघमपर्यन्तं राजसागारमक्षयम्। कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा
ततः सागरसङ्काशं दृष्ट्वा नृपतिमण्डलम्। संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम्
रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः। भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम्। बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा
असौ रोषात्प्रचलितो महान्नृपतिसागरः। अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह
यज्ञस्य च न विघ्नः स्यात्प्रजानां च हितं भवेत्। यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह
इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे। उवाचेदं वचो भीष्मस्ततः कुरुपितामहः