त्वरयाऽथ स कौन्तेय बलदेवं महाबलम्। प्रादुम्निं च महावीर्यमनिरुद्धं महाद्युतिम्
उषां च सुन्दरीं राजन्भृत्यदारगणैः सह। सर्वानेतान्समारोप्य गरुडोपरि वीर्यवान्
मुदा युक्तो महातेजाः पीताम्बरधरो बली। दिव्याभरमचित्राङ्गः शङ्कचक्रगदासिभृत्। आरुरोह गरुत्मन्तमुदयं भास्करो यथा
सूदिता द्वारपालाश्च निशुम्भनरकौ हतौ। कृतक्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति
शौरिणा पृथिवीपालास्त्रासिता भरतर्षभ। धनुषश्च प्रणादेन पाञ्चजन्यस्वनेन च
मेघप्रख्यैरनेकैश्च दाक्षिणात्याभिसंवृतम्। रुक्मिणं त्रासयामास केशवो भरतर्षभ
ततः पर्जन्यघोषेण रथेनादित्यवर्चसा। उवाह महिषीं भोज्यामेष चक्रगदाधरः
जारूथ्य आहृतक्रोधः शिशुपालश्च निर्जितः। वक्रश्च स हतः सङ्ख्ये शतधन्वा च क्षत्रियः
इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुकः। हतः सौभपतिश्चैव साल्वश्च कृतधन्वना
पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः। विभज्य पुण्डरीकाक्षो द्युमत्सेनमपोथयत्
महेन्द्रशिखरे चैव निमेषान्तरचारिणौ। जग्राह भरतश्रेष्ठ वानरावभितश्चरौ
इरावत्यां महाभोजो वह्निसूर्यसमो बले। गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना
अक्षप्रपत्तने राजन्नवहेलनतत्परौ। उभौ तावपि कृष्णेन स्वराष्ट्रे विनिपातितौ
दग्धा वाराणसी तात केशवेन महात्मना। पाण्ड्यं पौण्ड्रं च मात्स्यं च कलिङ्गं च जनार्दनः
जघान सहितान्सर्वानङ्गराजं च माधवः
एष चैव शतं हत्वा रथेन क्षत्रपुङ्गवान्। गान्धारीमवहत्कृष्णो महिषीं यादवर्षभः
अथ गाण्डीवधन्वानं क्रीडार्थं मधुसूदनः। जिगाय भरतश्रेष्ठ कुन्त्याश्च प्रमुखे विभुः
द्रौणिं कृपं च कर्णं च भीमसेनं सुयोधनम्। युद्धाय सहितान्त्राजञ्जिगाय भरतर्षभ
बभ्रोश्च प्रियमन्विच्छन्नेष चक्रगदाधरः। वेणुदारिवृतां भार्यां प्रममाथ युधिष्ठिर
पर्याप्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम्। वेणुदारिवशे युक्तां जिगाय मधुसूदनः
अवाप्य तपसा वीर्यं बलमोजश्च भारत। त्रासिताः सगणाः सर्वे बाणेन विबुधाधिपाः
वज्राशनिगदाबामैस्ताडयद्भिरनेकशः। तस्य नासीद्रणे मृत्युर्देवैरपि सवासवैः
सोऽभिभूतश्च कृष्णेन न हतश्च मगात्मना। छित्वा बाहुसहस्रं तु गोविन्देन महात्मना
एषोऽपीडन्महाबाहुः कंसं च मधुसूदनः। अवाप्तं तपसा वीर्यं बलमोजश्च भारत। कैटभं चातिलोमानि निजघान जनार्दनः
जम्बुमैरावतं चैव विरूपं च महायशाः। घान भरतश्रेष्ठ शम्बरं चारिमर्दनम्
एष भोगवतीं गत्वा वासुकिं भरतर्षभ। निर्जित्य पुण्डरीकाक्षो रौक्मिणेयममोचयत्
एवं बहूनि कर्माणि शिशुरेव जनार्दनः। कृतवान्पुण्डरीकाक्षः सङ्कर्षणसहायवान्
एवमेषोऽसुराणां चसुराणामपि सर्वशः। भयामयकरः कृष्णः सर्वलोकेश्वरः प्रभुः
एवमेव महाबाहुः शास्ता सर्वदुरात्मनाम्। कृत्वा देवार्थममितं स्वस्थानं प्राप्स्यते पुनः
एष भोगवतीं पुण्यां रविकान्तिं महायशाः। द्वारकामात्मसात्कृत्वा सागरं प्लावयिष्यति