स शोणितपुरे राज्यं चकाराप्रतिमो बली। त्रासिताश्च सुराः सर्वे तेन बाणेन पाण्डव
विजित्य विबुधान्सेन्द्रान्बाणः संवत्सरान्बहून्। अशासत महद्राज्यं कुबेर इव भारत
ततो राजन्नुषा नाम बाणस्य दुहिता यथा। येनोपायेन कौन्तेय अनिरुद्धो महाद्युतिः
प्राद्युम्निस्तामुषां प्राप्य प्रच्छन्नः प्रमुमोद ह। अथ बाणो महातेजास्तदा तत्र युधिष्ठिर
तं गृह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया तदा। गृहीत्वा कारयामास वस्तुं कारागृहे बलात्
स कुमारः सुखार्होऽथ तदा दुःखसमन्वितः। बामेन घातितो राजन्ननिरुद्धो मुमोह च
एतस्मिन्नेव काले तु नारदो मुनिपुङ्गवः। द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचोऽब्रवीत्
कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन। पौत्रस्ते बाध्यमानोऽत्र बाणेनामिततेजसा
कृच्छ्रं प्राप्तोऽनिरुद्धो वै शेते कारागृहे सदा। एतदुक्त्वा सुरर्षिर्वै बाणस्याथ पुरं ययौ
नारदस्य वचः श्रुत्वा ततो राजञ्जनार्दनः। जाहूय बलदेवं हि प्रद्युम्नं च महाद्युतिम्
आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः। ततः सुपर्णमारुह्य जयाय भरतर्षभ
जग्मुः क्रुधा महावीर्या बाणस्य नगरं प्रति। अथासाद्य महाराज तत्पुरं ददृशुश्च ते
ताम्रप्राकारसङ्गुप्तां हेमप्रासादसङ्कुलाम्। दृष्ट्वा मुदा युताः सर्वे विस्मयं परमं ययुः
तथा बाणपुरस्यासन्द्वारस्था देवताः सदा। महेश्वरो गुहश्चैव भद्रकाली विनायकः
अथ कृष्णो बलाज्जित्वा द्वारपालान्युधिष्ठिर। सुसङ्क्रुद्धो महातेजाः शङ्खचक्रगदासिभृत्
आससादोत्तरद्वारं शङ्करेणाभिरक्षितम्। तत्र तस्थौ महातेजाः शूलपाणिर्महेश्वरः
पिनाकं सशरं गृह्य बाणस्य हितकाम्यया। ज्ञात्वा तमागतं कृष्णं व्यादितास्यमिवान्तकम्
ततस्तौ चक्रतुर्युद्धं वासुदेवमहेश्वरौ। तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम्
अन्योन्यं तौ ततक्षाते अन्योन्यजयकाङ्क्षिणौ। दिव्यान्यस्त्राणि तौ देवौ क्रुद्धौ मुमुचतुस्तदा
ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना। विजित्य तं महादेवं ततो युद्धे शूलपाणिना। अन्यांश्च जित्वा द्वारस्थान्प्रविवेश पुरोत्तमम्
प्रविश्य बाणमासाद्य स तत्राथ जनार्दनः। चक्रे युद्धं महाक्रुद्धस्तेन बाणेन भरतर्षभ
बाणोऽपि सर्वशस्त्राणि शितानि भरतर्षभ। सुसङ्क्रुद्धस्तदा युद्धे पातयामास केशवे
पुनरुद्यम्य शस्त्राणि सहस्रं सर्वबाहुभिः। मुमोच बाणः सङ्क्रुद्धः कृष्णं प्रति रणाजिरे
ततः कृष्णस्तदा कृत्त्वा तानि सर्वाणि भारत। कृत्त्वा मुहूर्तं बाणेन युद्धं राजन्नगोक्षजः
चक्रमुद्यम्य रोषाद्वै दिव्यं शस्त्रोत्तमं ततः। सहस्रबाहूंश्चिच्छेद बाणस्यामिततेजसः
ततो बाणो महाराज कृष्णेन भृशपीडितः। भिन्नबाहुः पपाताशु विशाख इव पादपः
स पातयित्वा बाणैस्तं बाणं कृष्णस्त्वरान्वितः। प्राद्युम्निं मोचयामास क्षिप्रं राजगृहात्तदा
मोक्षयित्वाऽथ गोविन्दः प्राद्युम्निं सह भार्यया। बाणस्य सर्वरत्नानि असङ्ख्यानि जहार सः
गोधनानि च सर्वस्वं स बाणस्यालये बलात्। जहार च हृषीकेशो यदूनां कुलवर्धनः
ततः स सर्वरत्नानि चाहृत्य मधुसूदनः। क्षिप्रमारोपयाञ्चक्रे सर्वस्वं गरुडोपरि