सबालाः सहवृद्धाश्च ये ज्ञातिकुलबान्धवाः। उपोपविविशुः प्रीता वृष्णयो मधुसूदनम्
पूज्यमानो महाबाहुः पौराणां रतिवर्धनः। विवेश पुरुषव्याघ्रः स्ववेश्म मधुसूदनः
रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम्। अनन्तरं च सत्याया जाम्बवत्याश्च भारत
सर्वासां च यदुश्रेष्ठो गेहे गेहे विहारवान्। जगाम च हृषीकेशो रुक्मिण्याः सदनं पुनः
एष तात महाबाहो विजयः शार्ङ्गधन्वनः। एतदर्थं च जन्माहुर्मानुषेषु महात्मनः
द्वारकायां ततः कृष्णः स्वदारेषु दिवानिशम्। सुखं लब्ध्वा महाराज प्रमुमोद महायशाः
पौत्रस्य कारणाच्चक्रे विबुधानां प्रियं तदा। सावसवैः सुरैः सर्वैर्दुष्करं भरतर्षभ
बाणो नामाऽभवद्राजा बलेर्ज्येष्ठसुतो बली। वीर्यवान्भरतश्रेष्ठ स च बाहुसहस्रवान्
ततस्तेपे तपस्तीव्रं सत्वेन मनसा नृप। रुद्रमाराधयामास स च बाणः समा बहु
तस्मै बहुवरा दत्ताः शङ्करेण महात्मना। तांश्च लब्ध्वा वरान्बाणो दुर्लभानसुरैर्भुवि
स शोणितपुरे राज्यं चकाराप्रतिमो बली। त्रासिताश्च सुराः सर्वे तेन बाणेन पाण्डव
विजित्य विबुधान्सेन्द्रान्बाणः संवत्सरान्बहून्। अशासत महद्राज्यं कुबेर इव भारत
ततो राजन्नुषा नाम बाणस्य दुहिता यथा। येनोपायेन कौन्तेय अनिरुद्धो महाद्युतिः
प्राद्युम्निस्तामुषां प्राप्य प्रच्छन्नः प्रमुमोद ह। अथ बाणो महातेजास्तदा तत्र युधिष्ठिर
तं गृह्यनिलयं ज्ञात्वा प्राद्युम्निं सुतया तदा। गृहीत्वा कारयामास वस्तुं कारागृहे बलात्
स कुमारः सुखार्होऽथ तदा दुःखसमन्वितः। बामेन घातितो राजन्ननिरुद्धो मुमोह च
एतस्मिन्नेव काले तु नारदो मुनिपुङ्गवः। द्वारकां प्राप्य कौन्तेय कृष्णं दृष्ट्वा वचोऽब्रवीत्
कृष्ण कृष्ण महाबाहो यदूनां कीर्तिवर्धन। पौत्रस्ते बाध्यमानोऽत्र बाणेनामिततेजसा
कृच्छ्रं प्राप्तोऽनिरुद्धो वै शेते कारागृहे सदा। एतदुक्त्वा सुरर्षिर्वै बाणस्याथ पुरं ययौ
नारदस्य वचः श्रुत्वा ततो राजञ्जनार्दनः। जाहूय बलदेवं हि प्रद्युम्नं च महाद्युतिम्
आरुरोह गरुत्मन्तं ताभ्यां सह जनार्दनः। ततः सुपर्णमारुह्य जयाय भरतर्षभ
जग्मुः क्रुधा महावीर्या बाणस्य नगरं प्रति। अथासाद्य महाराज तत्पुरं ददृशुश्च ते
ताम्रप्राकारसङ्गुप्तां हेमप्रासादसङ्कुलाम्। दृष्ट्वा मुदा युताः सर्वे विस्मयं परमं ययुः
तथा बाणपुरस्यासन्द्वारस्था देवताः सदा। महेश्वरो गुहश्चैव भद्रकाली विनायकः
अथ कृष्णो बलाज्जित्वा द्वारपालान्युधिष्ठिर। सुसङ्क्रुद्धो महातेजाः शङ्खचक्रगदासिभृत्
आससादोत्तरद्वारं शङ्करेणाभिरक्षितम्। तत्र तस्थौ महातेजाः शूलपाणिर्महेश्वरः
पिनाकं सशरं गृह्य बाणस्य हितकाम्यया। ज्ञात्वा तमागतं कृष्णं व्यादितास्यमिवान्तकम्
ततस्तौ चक्रतुर्युद्धं वासुदेवमहेश्वरौ। तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम्
अन्योन्यं तौ ततक्षाते अन्योन्यजयकाङ्क्षिणौ। दिव्यान्यस्त्राणि तौ देवौ क्रुद्धौ मुमुचतुस्तदा
ततः कृष्णो रणं कृत्वा मुहूर्तं शूलपाणिना। विजित्य तं महादेवं ततो युद्धे शूलपाणिना। अन्यांश्च जित्वा द्वारस्थान्प्रविवेश पुरोत्तमम्