यदर्थं जन्म कृष्णस्य मानुषेषु महात्मनः। यत्कृतं वासुदेवेन तद्वक्ष्यामि समासतः
अयं शतसहस्राणि दानवानामरिन्दमः। निहय् पुण्डरीकाक्षः पातालविवरं ययौ
यच्च नाधिगतं पूर्वैः प्रह्लादबलिशम्बरैः। तदिदं शौरिणा वित्तं प्रापितं भवतामिह
सपाशं मुरमाक्रमय् पाञ्चजन्यं च धीमता। शिलासङ्घानतिक्रम्य निशुम्भः सगणो हतः
हयग्रीवश्च विक्रान्तो दानवो निहतो बली। मथितश्च मृधे भौमः कुण्डले चाहृते पुनः
पुनर्बाणवधे शौरिमादित्या वसुभिः सह। मन्मुखा आगमिष्यन्ति साध्याश्च मधुसूदनम्
एवमुक्त्वा ततः सर्वानामन्त्र्य कुकुरान्धकान्। सस्वजे रामकृष्णौ च वसुदेवं च वासवः
प्रद्युम्नसाम्बप्रमुखाननिरूद्धं च सारणम्। बभ्रुं झल्लिं गदं भानुं चारुदेष्णं च वृत्रहा
सत्कृत्य सारणाक्रूरौ पुनराभाष्य सात्यकिम्। सस्वजे वृष्णिराजानमाहुकं कुकुराधिपम्। भोजं च कृतवर्णाणमन्यांश्चान्दकवृष्णिषु
आमन्त्र्य देवप्रवरैर्वासवो वासवानुजम्। ततः श्वेताचलप्रख्यं गजमैरावतं प्रभुः
पश्यतां सर्वभातानामारुरोह शचीपतिः। पृथिवीं चान्तरिक्षं च दिवं च वरवारणम्
मुखाडम्बरनिर्घोषैः पूरयन्तमिवासकृत्। हैमयन्त्रमहाकक्ष्यं हिरण्मयविषाणिनम्
मनोहरकुथास्तीर्णं सर्वरत्नविभूषितम्। नित्यस्रुतमदस्रावं क्षरन्तमिव तोयदम्
दिशागजं महामात्रं काञ्चनस्रजमास्थितः। प्रबभौ मन्दराग्रस्थः प्रतपन्भानुमानिव
ततो वज्मयं भीमं प्रगृह्य परामाङ्कुशम्। ययौ बलवता सार्धं पावकेन शचीपतिः
तं करेणुगजव्रातैर्विमानैश्च मरुद्गणाः। पृष्ठतोऽनुययुः प्रीताः कुबेरवरुणग्रहाः
स वायुपक्षमास्थाय वैश्वानरपथं गतः। प्राप्य सूर्यपथं देवस्तत्रैवान्तरधीयत
ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः। नन्दगोपस्य महिषी यशोदा लोकविश्रुता
रेवती च महाभागा रुक्मिणी च पत्रिव्रता। सत्या जाम्बवती चोभे गान्धारी शिंशुमापि च
विशोका लक्षणा चापि सुमित्रा केतुमा तथा। वासुदेवमहिष्योऽन्याः श्रिया सार्धं ययुस्तदा
विभूतिं द्रष्टुमनसः केशवस्य महात्मनः। प्रीयमाणाः सभां जग्मुरालोकयितुमच्युतम्
देवकी सर्वदेवीनां रोहिणी च पुरस्कृता। ददृशुर्देवमासीनं कृष्णं हलभृता सह
तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च। अभ्यवादयतां देवौ देवकीं रामकेशवौ
सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽधिकम्। देवकी देवमातेव मित्रेण वरुणेन च
ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि। जाज्वल्यमाना वपुषा प्रभयाऽतीव भारत
एकानङ्गेति यामाहुः कन्यां वै कामरूपिणीम्। यत्कृते सगणं कंसं जघान पुरुषोत्तमः
ततः स भगवान्रामस्तामुपाक्रम्य भामिनाम्। मूर्ध्न्युपाघ्राय सव्येन परिजग्राह पाणिना
तां च तत्रोपसम्प्राप्य प्रियामिव सखीमिमाम्। दक्षिणेन कराग्रेण पिरजग्राह माधवः
ददृशुस्तां सभामध्ये भगिनीं रामकृष्णयोः। रुक्मपद्मशां पद्मश्रीमिवोत्तमनाभयोः
अथाक्षतमहावष्ट्या लाजपुष्पघृतैरपि। वृष्णयोऽवाकिरन्प्रीताः सङ्कर्षणजनार्दनौ