तालाः प्रलम्बा वकुलाः पिण्डिका बीजपूरकाः। द्रुतामलकखर्जूरा महिता जम्बुकास्तथा
आम्राः पनसवृक्षाश्च चम्पकास्तिलतिन्दुकाः। लिकुचामृताश्चैव क्षीरिका कर्णिका तथा
नालिकेरेङ्गुदाश्चैव उत्क्रोशकवनानि च। कदली जातमल्ली च पाटली कुमुदोत्पलाः
नीलोत्पलकपूर्णाश्च वाप्यः कूपाः सहस्रशः। फुल्लाशाककपित्थाश्च तैस्तीर्त्वा बन्धुजीवकाः
प्रियालाशोकवादिर्याः प्राचीनाश्चापि सर्वशः। प्रियङ्गुबदरीभिश्च यवैः स्यन्दनचन्दनैः
शचीपीलुपलाश्चैश्च पलाशवधपिप्लैः। उदुम्बरैश्च बिल्वैश्च पालाशैः पारिभद्रकैः
इन्द्रवृक्षार्जुनैश्चैव अश्वत्थैश्चिरबिल्वकैः। भौमगञ्जनवृक्षैश्च भल्लाभैरश्वसाह्वयैः
सज्जैस्ताम्बूलवल्लीभिर्लवङ्गैः क्रमुकैस्तथा। वंशैश्च विविधैस्तत्र समन्तात्परिरोपितैः
ये च नन्दनजा वृक्षा ये च चैत्ररथे वने। सर्वे ते यदुनाथेन समन्तात्परिरोपिताः
समाहिता महानद्यः पीतलोहितवालुकाः। तस्मिन्गृहवरे रम्ये मणिशक्रसवालुकाः
मत्तबर्हिणनादाश्च कोकिलाश्च मदावहाः। बभूवुः परमोपेताः सर्वे जगति पर्वताः
तत्रैव गजयूथानि तत्र गोमहिषास्तथा। निवासाश्च कृतास्तत्र वराहा मृगपक्षिणाम्
विश्वकर्मकृतः शैलः प्राकारस्तत्र वेश्मनि। व्यक्तकिष्कुशतोद्यामः सुधारससमप्रभः
तेन ते च महाशैलाः सरितश्च सरांसि च। परिक्षिप्तानि वै तस्य वनान्युपवनानि च
एवमालोकयाञ्चक्रुर्द्वारकामृषभास्त्रयः। उपेन्द्रबलदेवौ च वासवश्च महायशाः
ततस्तं पाण्डरं शौरिर्मूर्ध्नि तिष्ठन्गरुत्मतः। प्रीतः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम्
तस्य शङ्खस्य शब्देन सारश्चुक्षुभे भृशम्। ररास च नभः सर्वं तच्चित्रमभवत्तदा
पाञ्चजन्यस्य निर्घोषं निशम्य कुकुरान्दकाः। प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम्
वसुदेवं पुरस्कृत्य वेणुशङ्खरवैः सह। उग्रसेनो ययौ राजा वासुदेवनिवेशनम्
आनन्दितुं पर्यचन्स्वेषु वेश्मसु देवकी। रोहिणी च ययौ देशमाहुकस्य च याः स्त्रियः
हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयटः। एवमुक्तः सह स्त्रीभिरक्षतैर्मधुसूदनः
ततः शौरिः सुपर्णेन स्वं निवेशनमभ्ययात्। चकाराथ यथोद्देशमीश्वरो मणिपर्वतम्
ततो धनानि रत्नानि सभायां मधुसूदनः। निधाय पुण्डरीकाक्षः पितुर्दर्शनलालसः
ततः सान्दीपिनिं पूर्वं ब्राह्मणं चापि भारत। यथान्यायं वासुदेव उपस्पृष्ट्वा महायशाः
ववन्दे पृथुताम्राक्षः प्रीयमाणो महायशाः। तथाऽश्रुपरिपूर्णाक्षमानन्दभृतचेतसम्
ववन्दे सह रामेण पितरं वासवानुजः। ताभ्यां च मूर्ध्न्युपाघ्रातः केशवः परवीरहा
यथाश्रेष्ठमुपागम्य सात्वतान्यदुनन्दनः। सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः
ततः सर्वाणि वित्तानि सर्वरत्नमयानि च। व्यभजत्तानि तेभ्योऽथ सर्वेभ्यो यदुनन्दनः
सा केशवमहामात्रैर्महेन्द्रप्रतिमैः सभा। शुशुभे वृष्णिशार्दूलैः सिंहैरिव गिरेर्गुहा
अथासनगतान्सर्वानुवाच विबुधाधिपः। शुभया हर्षयन्वाचा महेन्द्रस्तान्महायशाः। कुकुरान्धकमुख्यांश्च तं च राजानमाहुकम्