भ्राजमानं पुरा तत्र सर्वौषधिविदीपितम्। यमिन्द्रभवनाच्छौरिराजहार परन्तपः
पारिजातः स तत्रैव केशवेन निवेशितः। लेपहस्तशतैर्जुष्टो विमानैश्च हिरण्मयैः
विहिता वासुदेवेन तत्रैव च महाद्रुमाः। पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः
मणिमौक्तिकवालूकाः पुष्करिण्यः सरांसि च। तासां परमकूलि शोभयन्ति महाद्रुमाः
सालतालाश्वकर्णाश्च शतशाखाश्च रोहिणः। भल्लातककपित्थाश्च इन्द्रवृक्षाश्च चम्पकाः
खादिरा मृतकाश्चैव समन्तात्परिरोपिताः। ये च हैमवता वृक्षा ये च नन्दनजास्तथा
आहृत्य यदुसिंहेन तेऽपि तत्र निवेशिताः। रत्नपीतारुणप्रख्याः सितपुष्पाश्च पादपाः
सर्वर्तुफलपूर्णोस्ते ते च काननसिन्धुषु। सहस्रपत्रपद्माश्च मन्दराश्च सहस्रशः
अशोकाः कर्णिकाराश्च तिलका नाग मल्लिकाः। कुरका नागपुष्पाश्च चम्पकास्तृणपुल्लिकाः
सप्तवर्णाः कबन्धाश्च नीपाः कुरवकास्तथा। केतकाः केसराश्चैव हिनतालतलताटकाः
तालाः प्रलम्बा वकुलाः पिण्डिका बीजपूरकाः। द्रुतामलकखर्जूरा महिता जम्बुकास्तथा
आम्राः पनसवृक्षाश्च चम्पकास्तिलतिन्दुकाः। लिकुचामृताश्चैव क्षीरिका कर्णिका तथा
नालिकेरेङ्गुदाश्चैव उत्क्रोशकवनानि च। कदली जातमल्ली च पाटली कुमुदोत्पलाः
नीलोत्पलकपूर्णाश्च वाप्यः कूपाः सहस्रशः। फुल्लाशाककपित्थाश्च तैस्तीर्त्वा बन्धुजीवकाः
प्रियालाशोकवादिर्याः प्राचीनाश्चापि सर्वशः। प्रियङ्गुबदरीभिश्च यवैः स्यन्दनचन्दनैः
शचीपीलुपलाश्चैश्च पलाशवधपिप्लैः। उदुम्बरैश्च बिल्वैश्च पालाशैः पारिभद्रकैः
इन्द्रवृक्षार्जुनैश्चैव अश्वत्थैश्चिरबिल्वकैः। भौमगञ्जनवृक्षैश्च भल्लाभैरश्वसाह्वयैः
सज्जैस्ताम्बूलवल्लीभिर्लवङ्गैः क्रमुकैस्तथा। वंशैश्च विविधैस्तत्र समन्तात्परिरोपितैः
ये च नन्दनजा वृक्षा ये च चैत्ररथे वने। सर्वे ते यदुनाथेन समन्तात्परिरोपिताः
समाहिता महानद्यः पीतलोहितवालुकाः। तस्मिन्गृहवरे रम्ये मणिशक्रसवालुकाः
मत्तबर्हिणनादाश्च कोकिलाश्च मदावहाः। बभूवुः परमोपेताः सर्वे जगति पर्वताः
तत्रैव गजयूथानि तत्र गोमहिषास्तथा। निवासाश्च कृतास्तत्र वराहा मृगपक्षिणाम्
विश्वकर्मकृतः शैलः प्राकारस्तत्र वेश्मनि। व्यक्तकिष्कुशतोद्यामः सुधारससमप्रभः
तेन ते च महाशैलाः सरितश्च सरांसि च। परिक्षिप्तानि वै तस्य वनान्युपवनानि च
एवमालोकयाञ्चक्रुर्द्वारकामृषभास्त्रयः। उपेन्द्रबलदेवौ च वासवश्च महायशाः
ततस्तं पाण्डरं शौरिर्मूर्ध्नि तिष्ठन्गरुत्मतः। प्रीतः शङ्खमुपाध्मासीद्द्विषतां रोमहर्षणम्
तस्य शङ्खस्य शब्देन सारश्चुक्षुभे भृशम्। ररास च नभः सर्वं तच्चित्रमभवत्तदा
पाञ्चजन्यस्य निर्घोषं निशम्य कुकुरान्दकाः। प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम्
वसुदेवं पुरस्कृत्य वेणुशङ्खरवैः सह। उग्रसेनो ययौ राजा वासुदेवनिवेशनम्
आनन्दितुं पर्यचन्स्वेषु वेश्मसु देवकी। रोहिणी च ययौ देशमाहुकस्य च याः स्त्रियः