सुधापाण्डरशृङ्गैश्च शातकुम्भपरिच्छदैः। रत्नसानुमहाशृङ्गैः सर्वरत्नसमन्वितैः?
सहर्म्यैः सार्धचन्द्रैश्च सनिर्यूहैः सपञ्ज्अरैः। सयन्त्रगृहसंबाधैः सधातुभिरिवाद्रिभिः
मणिकाञ्चनभ्ॐऐश्च सुधामृष्टतलैस्तथा। जाम्बूनदमयद्वारैर्वैडूर्यविकृतार्गलैः
सर्वर्तुसुखसंस्यर्शैर्महाधनपरिच्छदैः। रम्यसानुगृहैः शृङ्गैर्विचित्रैरिव पर्वतैः
पञ्चवर्णसवर्णैश्च पुष्पवृष्टिसमप्रभैः। तुल्यैः पर्जन्यनिर्घोषैर्ह्रादैर्भोगवती यथा
कृष्णध्वजोपवाह्यैश्च दाशार्हायुधरोहितैः। वृष्णिवीरमयूरैश्च स्त्रीसहस्रप्रजाकुलैः
वासुदेवैन्द्रपर्जन्यैर्गृहमेघैरलङ्कृता। ददृशे द्वारकाऽतीव मेघैर्द्यैरिव संवृता
साक्षाद्भगवतो वेश्म विहितं विश्वकर्मणा। ददृशुर्वासुदेवस्य चतुर्योजनमायतम्
तावदेव सुविस्तीर्णं सुसम्पूर्णं महाधनैः। प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः
यं चकार महाभागस्त्वष्टा वासवचोदितः। प्रासादं हेमनाभस्य सर्वतो योजनायतम्
मेरोरिव गिरेः शृङ्गमुच्छ्रितं काञ्चनालयम्। रुक्मिण्याः प्रवरो वासो निर्मितः सुमहात्मना
सत्यभामा पुनर्वेश्म सदा वसति पाण्डरम्। विचित्रमणिसोपानं यं विदुः शीतवानिति
विमलादित्यवर्णाभिः पताकाभिरलङ्कृतम्। व्यक्तबद्धं यथोद्देशे चतुर्दशमहाध्वजम्
सर्वप्रासादमुख्योऽत्र जाम्बवत्या विभूषितः। प्रभाया जृम्भणैश्चित्रैस्त्रैलोक्यमिव भासयन्
यस्तु पाण्डरवर्णाभस्तयोरन्तरमाश्रितः। विश्वकर्माकरोदेनं कैलासशिखरोपमम्
जाम्बूनदप्रदीप्ताग्रः प्रदीप्तज्वलनोपमः। सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः
तस्मिन्गान्धारराजस्य दुहिता कुलशालिनी। सुकेशी नाम विख्याता केशवेन निवेशिता
पद्मकूट इति ख्यातः पद्मवर्णो महाप्रभः। सुप्रभाया महाबाहो वासः स परमोच्छ्रितः
यस्तु सूर्यप्रभो नाम प्रासादवर उच्यते। लक्षणायाः कुरुश्रेष्ठ स दत्तः शार्ङ्गधन्वना
वैडूर्यवरवर्णाभः प्रासादो हरितप्रभः। श्वेतजाला हि यत्रैव यत्रैव च निवेशिता
यं विदुः सर्वभूतानि हरिरित्येव भारत। सुमित्रविजयावासो देवर्षिगणपूजितः
महिष्या वासुदेवस्य भूषणं सर्ववेश्मनाम्। यस्तु प्रासादमुख्योऽत्र विहितः सर्वशिल्पिभिः
महिष्या वासुदेवस्य केतुमानिति विश्रुतः। प्रसादो विरजो नाम विरजस्को महात्मनः
उपस्थानगृहं तात केशवस्य महात्मनः। यस्तु प्रासादमुख्योऽत्र यं त्वष्टा व्यदधात्स्वयम्
योजनायतविष्कम्भं सर्वरत्नमयं विभोः। तेषां तु विहिताः सर्वे रुक्मदण्डाः पताकिनः
सदने वासुदेवस्य मार्गसञ्जनना ध्वजाः। घण्टाजालानि तत्रैव सर्वेषां निवेशने
आहृत्य यदुसिंहेन वैजयन्तच्छलो महात्। हंसकूटस्य यच्छ्रङ्गमिन्द्रद्युम्नसरो महत्
षष्टितालसमुत्सेधमर्धयोजनविस्तृतम्। सकिन्नरमहानादं तदप्यमिततेजसः
पश्यतां सर्वभूतानां त्रिषु लोकेषु विश्रुतम्। आदित्यपथगं यत्तन्मेरोः शिखरमुत्तमम्
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम्। तदप्युत्पाट्य कुच्छ्रेण स्वं निवेशनमाहृतम्