विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत्। स भौमं नरकं हत्वा भर्ता वो भविता ध्रुवम्
दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः। वचनादेव सत्यं नो भर्ता भवितुमर्हसि
यत्प्रियं बत पश्याम श्रुतं प्रियमरिन्दम। दर्शनेन कृतार्थाः स्मो वयमस्य महात्मनः
उवाच हि यदुश्रेष्ठः सर्वास्ता जातमन्मथाः। यथा ब्रूत विशालाक्ष्यस्तत्सर्वं वो भविष्यति
ततस्ता गरुडे सर्वाः सरत्नधनसञ्चयाः। क्षिप्रमारोपयाञ्चक्रे भगवान्देवकीसुतः
सपक्षिगणमातङ्गं सव्यालमृगपन्नगम्। शाखामृगगणैर्जुष्टं सप्रस्तरशिलातलम्
न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम्। सप्रपातमहासानुं विचित्रशिखिसङ्कुलम्
स महेन्द्रानुजः शौरिश्चकार गुरुडोपरि। पश्यतां सर्वभूतानामुत्पाट्य मणिपर्वतम्
उपेन्द्रं बलदेवं च वासवं च महाबलम्। स्वपक्षबलविक्षेपैर्महाद्रिशिखरोपमः
दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन्। आरुजन्पर्वताग्राणि पादपांश्च समुत्क्षिपन्
सञ्जहार महाभ्राणि वैश्वानरपथं गतः। ग्रहनक्षत्रताराणां सप्तर्षीणां स्वतेजसा
प्रभाजालमतिक्रम्य चाश्विनोश्च परन्तप। प्राप्य पुण्यतमं स्थानं देवलोकमरिन्दमः
शक्रसद्म समासाद्य चावरुह्य जनार्दनः। सोऽभिवाद्यादितेः पादावर्चितः सर्वदैवतैः। ब्रह्मदक्षपुरोगैश्च प्रजापतिभिरेव च
अदितेः कुण्डले दिव्ये ददावथ तदा विभुः। रत्नान च परार्घ्याणि रामेण सह केशवः
प्रतिगृह्य च तत्सर्वमदितिर्वासवानुजम्। पूजयामास दाशार्हं रामं च विगतज्वरा
शची महेन्द्रमहिषी कृष्णस्य महिषीं तदा। सत्यभामां तु सङ्गृह्य अदित्यै सा न्यवेदयत्
सा तस्याः सत्यभामायाः कृष्णाप्रियचिकीर्षया। वरं प्रादाद्देवमाता सत्यायै विगतज्वरा
जरां न यास्यसि शुभे यावत्कृष्णोऽस्ति भूतले। सर्वगन्धगुणोपेता भविष्यसि वरानने
विसृज्य सत्यभामा वै पौलोमीं च सुमध्यमा। शच्यापि समनुज्ञाता ययौ कृष्णनिवेशनम्
सम्पूज्यमानस्त्रिदशैर्महर्षिगणसेवितः। द्वारकां प्रययौ कृष्णो देवलोकादरिन्दमः
शीघ्रादेत्य महाबाहुर्दीर्घमध्वानमच्युतः। वर्घमानपुरद्वारमाससाद सुरोत्तमः
तां पुरी द्वारकीं दृष्ट्वा विभुर्नारायणो हरिः। हृष्टः सर्वार्थसम्पन्नः प्रवेष्टुमुपचक्रमे
सोऽपश्यद्वृक्षषण्डांश्च रम्यान्नानाजनान्वहून्। समन्ततो द्वारवत्यां नानापुष्पफलान्वितान्
अर्कचन्द्रप्रतीकाशैर्मेरुकूटनिभैर्गृहैः। द्वारकामावृतां रम्यां सुकृतां विश्वकर्मणा
पद्मषण्डाकुलाभिश्च हंससेवितवारिभिः। गङ्गासिन्धुप्रकाशाभिः परिघाभिरलङ्कृताम्
प्राकारेणार्कवर्णेन पाण्डरेण विराजिताम्। वियन्मूर्ध्नि निविष्टेन द्यामिवाभ्रपरिच्छदाम्
नन्दनप्रतिमैश्वापि मिश्रकप्रतिमैर्वनैः। तत्र सा विहिता साक्षान्नगरी विश्वकर्मणा
काञ्चनैर्मणिसोपानैरुपेता जनहर्षिणी। गीतघोषमहाघोषैः प्रसादप्रवरैः शुभा
तस्मिन्पुरवारश्रेष्ठे दाशार्हाणां यशस्विनाम्। नेश्मानि जहृषे दृष्ट्वा भगवान्पाकशासनः
समुच्छ्रितपताकानि पारिप्लवनिभानि च। काञ्चनाभानि भाखन्ति मेरुकूटनिभानि च