भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः। ते च विंशतिसाहस्रा द्वास्तावत्यः करेणवः
अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः। गोभिश्चाविकृतैर्यावत्कामात्तव जनार्दन
एतत्ते प्रापयिष्याणि वृष्ण्यावासमरिन्दम। वसु यत्रिषु लोकेषु धर्मेणावर्जितं त्वया
देवगन्धर्वरत्नानि दैतेयासुरजानि च। यानि सन्ति हिरण्यानि नरकस्य निवेशने
एतत्तु गरुडे सर्वं क्षिप्रमारोप्य वासवः। दार्शार्हपतिना सार्धमुपायान्मणिपर्वतम्
चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः। हेमचित्रवितानैश्च प्रासादैरुपशोभितः
हर्म्याणि च विशालानि मणिसोपानवन्ति च। तत्रस्था वरवर्णिन्यो ददृशुर्मधुसूदनम्
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तदा। त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम्
परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः। पर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः
व्रतसन्तापजः शोके नात्र कश्चिदपीडयत्। अरजांसि च वासांसि बिभ्रत्यः कौशिकान्यपि
समेत्य यदुसिंहस्य चक्रुरस्याञ्जलिं स्त्रियः। ऊचुश्चैनं हृषीकेशं सर्वास्ताः कमलेक्षणाः
नारदेन समाख्यातमस्माकं पुरुषोत्तम। आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये
सोऽसुरं नरकं हत्वा निशुम्भं मुरमेव च। भौमं च सपरीवारं हयग्रीवं च दानवम्
तथा पञ्चजनं चैव प्राप्स्यते धनमक्षयम्। सोऽचिरेणैव कालेन युष्मन्मोक्ता भविष्यति
एवमुक्त्वागमद्धीरो देवर्षिर्नारदस्तथा। त्वां चिन्तयानाः सततं तपो घोरमुपास्महे
कालेऽतीते महाबाहुं कदा द्रक्ष्याम माधवम्। इत्येवं हृदि सङ्कल्पं कृत्वा पुरुषसत्तम। तपश्चराम सततं रक्ष्यमाणा हि दानवैः
ततोऽस्मत्प्रियकामार्थं भगवान्मारुतोऽब्रवीत्। यथोक्तं नारदेनाथ न चिरात्तद्भविष्यति
तासां परमनारीणामृषभाक्षं पुरः स्थितम्। ददृशुर्देवगन्धर्वा गृष्टीनामिव गोपतिम्
तस्य चन्द्रोपमं वक्त्रमुदीक्ष्य मुदितेन्द्रियाः। सम्प्रहृष्टा महाबाहुमिदं वचनमब्रुवन्
सत्यव्रत पुरा वायुरिदमस्मानिहाब्रवीत्। सर्वभूतहितज्ञश्च महर्षिरपि नारदः
विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत्। स भौमं नरकं हत्वा भर्ता वो भविता ध्रुवम्
दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः। वचनादेव सत्यं नो भर्ता भवितुमर्हसि
यत्प्रियं बत पश्याम श्रुतं प्रियमरिन्दम। दर्शनेन कृतार्थाः स्मो वयमस्य महात्मनः
उवाच हि यदुश्रेष्ठः सर्वास्ता जातमन्मथाः। यथा ब्रूत विशालाक्ष्यस्तत्सर्वं वो भविष्यति
ततस्ता गरुडे सर्वाः सरत्नधनसञ्चयाः। क्षिप्रमारोपयाञ्चक्रे भगवान्देवकीसुतः
सपक्षिगणमातङ्गं सव्यालमृगपन्नगम्। शाखामृगगणैर्जुष्टं सप्रस्तरशिलातलम्
न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम्। सप्रपातमहासानुं विचित्रशिखिसङ्कुलम्
स महेन्द्रानुजः शौरिश्चकार गुरुडोपरि। पश्यतां सर्वभूतानामुत्पाट्य मणिपर्वतम्
उपेन्द्रं बलदेवं च वासवं च महाबलम्। स्वपक्षबलविक्षेपैर्महाद्रिशिखरोपमः
दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन्। आरुजन्पर्वताग्राणि पादपांश्च समुत्क्षिपन्