यः सहस्रसहस्त्वेकः सर्वान्देवानपोथयत्। तं जघान महावीर्यं हयग्रीवं महाबलम्
अपारतेजा दुर्धर्षः सर्वयादवनन्दनः।। मध्ये लोहितगङ्गायां भगवान्देवकीसुतः
औदकायां विरूपाक्षं जघान मधुसूदनः। ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया। पुरमासादयामास तत्र युद्धमवर्तत
तद्युद्धमभवद्घोरं तेन भौमेन भारत। कुण्डलार्थे सुरेशस्य नरकेण महात्मना
मुहूर्तं लालयित्वा तु नरकं मधूसूदनः। प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद्बली
चक्रप्रमथितं तस्य पपात सहसा भुवि। उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा
भूमिस्तु पतितं दृष्ट्वा प्रायच्छत्कुण्डले सुतम्। प्रदाय च महाबाहुमिदं वचनमब्रवीत्
सृष्टस्त्वयैव मधुहंस्त्वयैव विनिपातितः। यथेच्छसि तथा क्रीडा प्रजास्तस्यानुपालय
देवानां च मुनीनां च पितॄणां च महात्मनाम्। उद्वेजनीयो भूतानां ब्रह्मद्विद् पुरुषाधमः
लोकद्विष्टः सुतस्ते तु देवारिर्लोककण्टकः। सर्वलोकनमस्कार्यामदितं बाधयद्वली
कुण्डले हृतवान्दर्पात्ततस्ते निहतः सुतः। नैव मन्युस्त्वया कार्यो यत्कृतं मयि भामिनि
त्वत्प्रभावाच्च ते पुत्रो लब्धवान्गतिमुत्तमाम्। तस्माद्गच्छ महाभागे भारावतरणं कृतम्
निहत्य नरकं भौमं सत्यभामासहायवान्। सहितो लोकपालैश्च ददर्श नरकालयम्
अथास्य गृहमासाद्य नारकस्य महात्मनः। ददर्श धनमक्षय्यं रत्नानि विविधानि च
मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च। विस्ताराल्पांश्चार्कमणीन्विपुलान्स्फाटिकानपि
जाम्बूनदमयान्येव शातकुम्भमयानि च। प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च
हिरण्यवर्णं रुचिरं श्वेतमभ्यन्तरं गृहम्। तदक्षय्यं गृहे दृष्टं नरकस्य धनं बहु
न हि राज्ञः कुबेरस्य तावद्धनसमुच्छ्रयः। दृष्टपूर्वः पुरा साक्षान्महेन्द्रभवनेष्वपि
हते भौमे निशुम्भे च वासवः सगणोऽब्रवीत्। दाशार्हपतिमासीनमाहृत्य मणिकुण्डले
हेमसूत्रा महाकक्ष्यास्तोमरैर्वीर्यशालिनः। विमलानि पताकानि वासांसि विविधानि च
भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः। ते च विंशतिसाहस्रा द्वास्तावत्यः करेणवः
अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः। गोभिश्चाविकृतैर्यावत्कामात्तव जनार्दन
एतत्ते प्रापयिष्याणि वृष्ण्यावासमरिन्दम। वसु यत्रिषु लोकेषु धर्मेणावर्जितं त्वया
देवगन्धर्वरत्नानि दैतेयासुरजानि च। यानि सन्ति हिरण्यानि नरकस्य निवेशने
एतत्तु गरुडे सर्वं क्षिप्रमारोप्य वासवः। दार्शार्हपतिना सार्धमुपायान्मणिपर्वतम्
चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः। हेमचित्रवितानैश्च प्रासादैरुपशोभितः
हर्म्याणि च विशालानि मणिसोपानवन्ति च। तत्रस्था वरवर्णिन्यो ददृशुर्मधुसूदनम्
गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तदा। त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम्
परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः। पर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः
व्रतसन्तापजः शोके नात्र कश्चिदपीडयत्। अरजांसि च वासांसि बिभ्रत्यः कौशिकान्यपि