तथैव कृतवर्णाणां चारुदेष्णं महाबलम्।। देवकल्पान्महाराज तान्दाशार्हपुरोगमान्
पिरिष्वज्य च दृष्ट्वा च भगवान्भूतभावनः।। वृष्ण्यन्धकमहामात्रान्परिष्वज्याथ वासवः
प्रगृह्य पूजां तैर्दत्तां भगवान्पाकशासनः।। सोऽदितेर्वचनात्तात कुण्डलार्थे जनार्दनम्
निहत्य नरकं भौममाहरिष्यामि कुण्डले
एवमुक्त्वाऽथ गोविन्दो राममेवाभ्यभाषत।। प्रद्युम्नमनिरुद्धं च साम्बं चाप्रतिमं बले
एतांश्चोच्त्का तथा तत्र वासुदेवो महायशाः।। अथारुह्य सुपर्णं वै शङ्खचक्रगदासिभृत्
ययौ तदा हृषीकेशो देवानां हितकाम्यया।। तं प्रयान्तममित्रघ्नं देवाः सहपुरन्दराः
पृष्ठतोऽनुययुः प्रीत्या स्तुवन्तो विष्णुमच्युतम्। उग्रान्त्रक्षोगणान्हत्वा नरकस्य महासुरान्
क्षुरान्तान्मौरवान्पाशान्षट्सहस्रं ददर्श सः।। स़ञ्छिद्य पाशाच्छस्त्रेण मुरं हत्वा सहान्वयम्
शैलसङ्घानतिक्रम्य निशुम्भं च व्यपोथयत्
यः सहस्रसहस्त्वेकः सर्वान्देवानपोथयत्। तं जघान महावीर्यं हयग्रीवं महाबलम्
अपारतेजा दुर्धर्षः सर्वयादवनन्दनः।। मध्ये लोहितगङ्गायां भगवान्देवकीसुतः
औदकायां विरूपाक्षं जघान मधुसूदनः। ततः प्राग्ज्योतिषं नाम दीप्यमानमिव श्रिया। पुरमासादयामास तत्र युद्धमवर्तत
तद्युद्धमभवद्घोरं तेन भौमेन भारत। कुण्डलार्थे सुरेशस्य नरकेण महात्मना
मुहूर्तं लालयित्वा तु नरकं मधूसूदनः। प्रवृत्तचक्रं चक्रेण प्रममाथ बलाद्बली
चक्रप्रमथितं तस्य पपात सहसा भुवि। उत्तमाङ्गं हताङ्गस्य वृत्रे वज्रहते यथा
भूमिस्तु पतितं दृष्ट्वा प्रायच्छत्कुण्डले सुतम्। प्रदाय च महाबाहुमिदं वचनमब्रवीत्
सृष्टस्त्वयैव मधुहंस्त्वयैव विनिपातितः। यथेच्छसि तथा क्रीडा प्रजास्तस्यानुपालय
देवानां च मुनीनां च पितॄणां च महात्मनाम्। उद्वेजनीयो भूतानां ब्रह्मद्विद् पुरुषाधमः
लोकद्विष्टः सुतस्ते तु देवारिर्लोककण्टकः। सर्वलोकनमस्कार्यामदितं बाधयद्वली
कुण्डले हृतवान्दर्पात्ततस्ते निहतः सुतः। नैव मन्युस्त्वया कार्यो यत्कृतं मयि भामिनि
त्वत्प्रभावाच्च ते पुत्रो लब्धवान्गतिमुत्तमाम्। तस्माद्गच्छ महाभागे भारावतरणं कृतम्
निहत्य नरकं भौमं सत्यभामासहायवान्। सहितो लोकपालैश्च ददर्श नरकालयम्
अथास्य गृहमासाद्य नारकस्य महात्मनः। ददर्श धनमक्षय्यं रत्नानि विविधानि च
मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च। विस्ताराल्पांश्चार्कमणीन्विपुलान्स्फाटिकानपि
जाम्बूनदमयान्येव शातकुम्भमयानि च। प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च
हिरण्यवर्णं रुचिरं श्वेतमभ्यन्तरं गृहम्। तदक्षय्यं गृहे दृष्टं नरकस्य धनं बहु
न हि राज्ञः कुबेरस्य तावद्धनसमुच्छ्रयः। दृष्टपूर्वः पुरा साक्षान्महेन्द्रभवनेष्वपि
हते भौमे निशुम्भे च वासवः सगणोऽब्रवीत्। दाशार्हपतिमासीनमाहृत्य मणिकुण्डले
हेमसूत्रा महाकक्ष्यास्तोमरैर्वीर्यशालिनः। विमलानि पताकानि वासांसि विविधानि च