नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्। सधुत्पपात चाकाशं तत उच्चैर्विहङ्गमः
सोऽलम्बं तीर्थणासाद्य देववृक्षानुपागमत्। ते भीताः समकम्पन्त तस्य पक्षानिलाहताः
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः। प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः। काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः। सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्
तेषां मध्ये महानासीत्पादपः सुमनोहरः। सहस्रयोजनोत्सेधो बहुशाखासमन्वितः
खगानामालयो दिव्यो नाम्ना रौहिणपादपः। यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः;
तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः। अतिप्रवृद्धः समुहानापतन्तं मनोजवम्
यैषा मम महाशाखा शतयोजनमायता। एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ
ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन्। खगोत्तमो द्रुतमभिपत्य वेगवा- न्बभञ्ज तामविरलपत्रसंचयाम्
स्पष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा। अभज्यत तरोः शाखा भग्नां चैकामधारयत्
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन्। अथात्रं लम्बतोऽपश्यद्वालखिल्यानधोमुखान्
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्। तपोरतांल्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः
हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः। नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ
स तद्विनाशसंत्रासादभिपत्य स्वगाधिपः। शाखामास्येन जग्राह तेषामेवान्ववेक्षया
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः। विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे
गुरुं भारं समासाद्योड्डीन एष विहङ्गमः। गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन्। एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः
दयार्थं वालखिल्यानां न च स्थानमविन्दत। स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्। ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम्
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्। शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्
अचिन्त्यमनभिध्येयं सर्वभूतभयंकरम्। महावीर्यधरं रौद्रं साक्षादग्निमिवोद्यतम्
अप्रधृष्यमजेयं च देवदानवराक्षसैः। भेत्तारं गिरिशृङ्गाणां समुद्रजलशोषणम्
लोकसंलोडनं घोरं कृतान्तसमदर्शनम्। तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा। विदित्वा चास्यं संकल्पमिदं वचनमब्रवीत्
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम्। मा त्वां दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः
ततः प्रसादयामास कश्यपः पुत्रकारणात्। वालखिल्यान्महाभागांस्तपसा हतकल्मषान्
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः। चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ
एवमुक्ता भगवता मुनयस्ते समभ्ययुः। मुक्त्वा शाखां गिरिं पुण्यं हिमवन्त तपोऽर्थिनः
ततस्तेष्वपयातेषु पितरं विनतासुतः। शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम्
भगवन्क्व विमुञ्चामि तरोः शाखामिमामहम्। वर्जितं मानुषैर्देशमाख्यातु भगवान्मम
ततो निःपुरुषं शैलं हिमसंरुद्धकन्दरम्। अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः