षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै। अपरस्तु महाव्यूहः किशोरणां युधिष्ठिर
आरोहवरसम्पन्नो दुर्धर्षः केनचिद्बलान्। स च षोडशसाहस्रः कंसभ्रातृपुरः सरः
सुनामा सर्वतस्त्वेनं स कंसं पर्यपालयत्। सगणो मिश्रको नाम षष्टिमसाहस्र उच्यते
कंसरोषमहावेगां वैवस्वतवशानुगाम्।। मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम्
शस्रजालमहाफेनां सादिवेगमहाजलाम्। गदापरिघपाठीनां नानाकवचशैवलाम्
रथनागमहावर्तां नानारुधिरकर्दमाम्। चित्रकार्मुककल्लोलां रथाश्वकलिलह्रदाम्
महामृधनदीं घोरां योधावर्तननिस्वनाम्। कोऽन्यो नारायणादेत्य कंसहन्ता युधिष्ठिर
एष शक्ररथे तिष्ठंस्तान्यनीकानि भारत। व्यधमद्भोजपुत्रस्य महाभ्राणीव मारुतः
तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम्। आनयामास मानार्हां देवकीं समुहृद्गणाम्
यशोदां रोहिणीं चैव अभिवाद्य पुनः पुनः। उग्रसेनं च राजानमभिषिच्य जनार्दनः
अर्चितो यदुमुख्यैश्च भगवान्वासवानुजः। ततः पार्थिवमायान्तं सहितं सर्वराजभिः। सरस्वत्यां जरासन्धमजयत्पुरुषोत्तमः
शूरसेनपुरं त्यक्त्वा ततो यादवनन्दनः। द्वारकां भगवान्कृष्णः प्रत्यपद्यत भारत
ततो महात्मा यानानि रत्नानि विविधानि च। यथार्हं पुण्डरीकाक्षो नैर्ऋतात्प्रत्यपद्यत
तत्र विघ्नं चरन्ति स्म दैतेयाः सहदानवैः। ताञ्जघान महाबाहुर्वरमत्तान्महासुरान्
स विघ्नमकरोत्तत्र नरको नाम नैर्ऋतः। अदितिं धर्षयामास कुण्डलार्थं युधिष्ठिर
न चासुरगणैः सर्वैः सहितैः कर्म तत्पुरा। कृतपूर्वं महाघोरं यदकार्षीन्महासुरः
यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम्। विषयान्तपालाश्चत्वारो यस्यासन्युद्धदुर्मदाः
आदेवयानमावृत्य पन्थानं पर्यवस्थिताः। त्रासनाः सुरसङ्घानां विरूपै राक्षसैः सह
हयग्रीवो निकुम्भश्च घोरः पञ्चजनस्तदा। मुरः पुत्रसहस्रैश्च वरमत्तो महासुरः
तद्वधार्थं महाबाहुरेष चक्रगदासिभृत्। जातो वृष्णिषु देवक्यां वासुदेवो जनार्दनः
तस्यास्य पुरुषेन्द्रस्यलोकप्रथिततेजसः। निवासो द्वारकायां तु विदितो वः प्रधानतः
अतीव हि पुरी रम्या द्वारका वासवक्षयात्। अतिवैराजमप्यद्धा प्रत्यक्षस्ते युधिष्ठिर
तस्मिन्देवपुरप्रख्ये सा सभा वृष्ण्युपाश्रया। सुधर्मेति च विख्याता योजनायतविस्तृता
तत्र वृष्ण्यन्दकाः सर्वे रामकृष्णपुरोगमाः। लोकयात्रामिमां कृत्स्नां परिरक्षन्त आसते
तत्रासीनेषु सर्वेषु कदाचिद्भरतर्षभ। दिव्यगन्धा ववुर्वाताः कुसुमानां च वृष्टयः
ततः सूर्यसहस्राभस्तेजोराशिर्महाद्भुतः। मध्ये तु तेजसस्तस्य पाण्डरं गजमास्थितः
वृतो देवगणैः सर्वैर्वासवः प्रत्यदृश्यत।। रामकृष्णौ च राजा च वृष्ण्यन्धकगणैः सह
उत्पत्य सहसा देवे नमस्कारमकुर्वत।। सोऽवतीर्य गजात्तूर्णं परिष्वज्य जनार्दनम्
सस्वजे बलदेवं च राजानं च तमाहुकम्।। वासुदेवोद्धवौ चैव विकद्रुं च महामतिम्
प्रद्युम्नसाम्बनिशठाननिरुद्धं च सात्यकिम्।। गदं सारणमक्रूरं भानुझल्लिविडूरथान्