लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ। गान्धर्ववेदं वैद्यं च सकलं समावापतुः
हस्तिशिक्षामश्विशिक्षां द्वादशाहेन चाप्नुताम्। तावुभौ जग्मतुर्वीरौ गुरुं सान्दीपिनिं पुनः
धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ। ताविष्वासवराचार्यमभिगम्य प्रणम्य च
तेन वै सत्कृतौ राजंश्चरन्तौ ताववन्तिषु। पञ्चाशद्भिरहोरात्रैर्दशाङ्गं सुप्रतिष्ठितम्
सरहस्यं धनुर्वेदं सकलं ताववापतुः। दृष्ट्वा कृतार्थो विप्रेन्द्रो गुर्वर्थे तावचोदयत्
अयाचतार्थं गोविन्दं तदा सान्दीपिनिर्विभुम्। मम पुत्रः समुद्रेऽस्मिंस्तिमिना चापवाहितः
पुत्रमानय भद्रं ते भक्षितं तिमिना मम। आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम्
अशक्यं सर्वभूतेषु कर्तुमन्येन केनचित्। यश्च सान्दीपिनेः पुत्रं जहार भरतर्षभ
सोऽसुरः समरे ताभ्यां समुद्रे विनिपातितः। ततः सान्दीपिनेः पुत्रः प्रसादादमितौजसः
दीर्घकालं कृतः प्रेतः पुनरासीच्छरीरवान्। तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम्
सर्वेषामेव भूतानां विस्मयः समजायत। आसनानि च सर्वाणि गवाश्वं च धनादिकम्
सर्वं तदुपजहाते गुरवे रामकेशवौ। गदापरिघयुद्धे च सर्वास्त्रेषु च केशवः
परमां मुख्यतां प्राप्तः सर्वलोकेषु विश्रुतः। कश्च नारायणादन्यः सर्वरत्नविभूषितम्
रथमादित्यसङ्काशमातिष्ठेत शचीपतेः। कस्य चाप्रतिमो यन्ता वज्रपाणेः प्रियः सखा
मातलिः सङ्गृहीता स्यादन्यत्र पुरुषोत्तमात्। भोजराजात्मजो वापि कंसस्तात युधिष्ठिर
अस्त्रजाते बले वीर्ये कार्तवीर्यसमोऽभवत्। तस्य भोजपतेः पुत्राद्भोजराजन्यवर्धनात्
उद्विजन्ते स्म राजानः सुपर्णादिव पन्नगाः। चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनः
शतं शतसहस्राणि पादातास्तस्य भारत। अष्टौ शतसहस्राणि शूराणामनिवर्तिनाम्
अभवन्भोजराजस्य जाम्बूनदमया ध्वजाः। रुक्मकाञ्चनकक्ष्यास्तु रथास्तस्य युधिष्ठि
अभवन्भोजपुत्रस्य द्विपास्तावद्धि तद्बलम्। चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनाम्
षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै। अपरस्तु महाव्यूहः किशोरणां युधिष्ठिर
आरोहवरसम्पन्नो दुर्धर्षः केनचिद्बलान्। स च षोडशसाहस्रः कंसभ्रातृपुरः सरः
सुनामा सर्वतस्त्वेनं स कंसं पर्यपालयत्। सगणो मिश्रको नाम षष्टिमसाहस्र उच्यते
कंसरोषमहावेगां वैवस्वतवशानुगाम्।। मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम्
शस्रजालमहाफेनां सादिवेगमहाजलाम्। गदापरिघपाठीनां नानाकवचशैवलाम्
रथनागमहावर्तां नानारुधिरकर्दमाम्। चित्रकार्मुककल्लोलां रथाश्वकलिलह्रदाम्
महामृधनदीं घोरां योधावर्तननिस्वनाम्। कोऽन्यो नारायणादेत्य कंसहन्ता युधिष्ठिर
एष शक्ररथे तिष्ठंस्तान्यनीकानि भारत। व्यधमद्भोजपुत्रस्य महाभ्राणीव मारुतः
तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम्। आनयामास मानार्हां देवकीं समुहृद्गणाम्
यशोदां रोहिणीं चैव अभिवाद्य पुनः पुनः। उग्रसेनं च राजानमभिषिच्य जनार्दनः