ततः कदाचित्कौन्तेय रामकृष्णौ वनं गतौ। चारयन्तौ प्रवृद्धानि गोधनानि शुभाननौ
विहरन्तौ मुदा युक्तौ वीक्षमाणौ वनानि वै। श्वेलयन्तौ प्रगायन्तौ विचिन्वन्तौ च पादपान्
नामभिर्व्याहरन्तौ च वत्सान्गाश्च परन्तपौ। चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ
तौ देवौ मानुषीं दीक्षां वहन्तौ सुरपूजितौ। तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम्
एवं बाल्येऽपि गोपालैः क्रीडाभिश्च विजह्रतुः
ततः कृष्णो महातेजास्तदा गत्वा तु गोव्रजम्। गिरियज्ञं तमेवैष प्रवृत्तं गोपदारकैः
बुभुजे पायसं शौरिरीश्वरः सर्वभूतकृत्। तं दृष्ट्वा गोपकाः सर्वे कृष्णमेव समर्चयन्
पूज्यमानस्तदा देवैर्दिव्यं वपुरधारयत्। धृतो गोवर्धनो नाम सप्ताहं पर्वतो धृतः
शिशुना वासुदेवेन गवार्थमरिमर्दन। क्रीडमानस्तदा कृष्णः कृतवान्कर्म दुष्करम्
तदद्भुतमतीवासीत्सर्वलोकस्य भारत। देवदेवः क्षितं गत्वा कृष्णं नत्वा मुदान्वितः
गोविन्द इति तं ह्युक्त्वा ह्यभ्यषिञ्चत्पुरन्दरः। इत्युक्त्वाश्लिष्य गोविन्दं पुरुहूतोभ्ययाद्दिवम्
अथारिष्ट इति ख्यातं दैत्यं वृषभविग्रहम्। जघान तरसा कृष्णः पशूनां हितकाम्यया
केशिनामा ततो दैत्यो राजंस्तुरगविग्रहः। तथा वनगतं पार्थ गजायुतबलं हयम्
कराम्भोरुहवज्रेण जघान मधुसूदनः। अथ मल्लं तु चाणूरं निजघान महाऽसुरम्
सुदामानममित्रघ्न सर्वसैन्यपुरस्कृतम्। बालरूपेण गोविन्दो निजघान च भारत
बलदेवेन चायत्नात्समाजे मुष्टिको हतः। ताडितश्च सहामात्यः कंसः कृष्णेन भारत
हत्वा कंसममित्रघ्नः सर्वेषां पश्यतां तदा। अभिषिच्योग्रसेनं तं पित्रोः पादमवन्दत
एवमादीनि कर्माणि कृतवान्वै जनार्दनः
ततस्तौ जग्मतुस्तत्र गुरुं सान्दीपिनिं पुनः। गुरुशुश्रूषणायुक्तौ धर्मज्ञौ धर्मचारिणौ
व्रतमुग्रं महात्मानौ विचरन्ताववन्तिषु। अहोरात्रैश्चतुष्पष्ट्या साङ्गान्वेदानवापतुः
लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ। गान्धर्ववेदं वैद्यं च सकलं समावापतुः
हस्तिशिक्षामश्विशिक्षां द्वादशाहेन चाप्नुताम्। तावुभौ जग्मतुर्वीरौ गुरुं सान्दीपिनिं पुनः
धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ। ताविष्वासवराचार्यमभिगम्य प्रणम्य च
तेन वै सत्कृतौ राजंश्चरन्तौ ताववन्तिषु। पञ्चाशद्भिरहोरात्रैर्दशाङ्गं सुप्रतिष्ठितम्
सरहस्यं धनुर्वेदं सकलं ताववापतुः। दृष्ट्वा कृतार्थो विप्रेन्द्रो गुर्वर्थे तावचोदयत्
अयाचतार्थं गोविन्दं तदा सान्दीपिनिर्विभुम्। मम पुत्रः समुद्रेऽस्मिंस्तिमिना चापवाहितः
पुत्रमानय भद्रं ते भक्षितं तिमिना मम। आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम्
अशक्यं सर्वभूतेषु कर्तुमन्येन केनचित्। यश्च सान्दीपिनेः पुत्रं जहार भरतर्षभ
सोऽसुरः समरे ताभ्यां समुद्रे विनिपातितः। ततः सान्दीपिनेः पुत्रः प्रसादादमितौजसः
दीर्घकालं कृतः प्रेतः पुनरासीच्छरीरवान्। तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम्