पूतना चापि निहता महाकाया महास्तनी। ततः काले महाराज संसक्तौ रामकेशवौ
कृष्णः सङ्कर्षणश्चोभौ रिङ्खिणौ च बभूवतुः। अन्योन्यकिरणाक्रान्तौ चन्द्रसूर्याविवाम्बरे
विसर्पन्तौ च सर्वत्र महासर्पभुजौ तदा। रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप
क्वचिच्च जानुभिः स्पृष्टौ क्रीडमानौ क्वचिद्वने। पिबन्तौ दधिकुल्यांश्च मथ्यमाने च भारत
ततः स बालो गोविन्दो नवनीतं तदा क्षयम्। ग्रासमानस्तु तत्रायं गोपीभिर्ददृशे तथा
दाम्नाऽथोलूखले कृष्णो गोपीभिश्च निबन्धितः। तत्तथा शिशुना तेन कर्षता चार्जुनावृभौ
समूलविटपौ भग्नौ तदद्भुतमिवाभवत्। ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ
तस्मिन्नेव व्रजस्थाने सप्तवर्षै बभूवतुः। नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ
बभुवतुर्वत्सपालौ काकपक्षधरावुभौ। पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ
शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ। मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ
वनमालापरिक्षिप्तौ सालपोताविवोद्गतौ। अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ
सशिक्यतुम्बुरुकरौ गोपवेणुप्रवादकौ। क्वचिद्वसन्तावन्योन्यं क्रडमानौ क्वचिद्वने
पर्णशय्यासु तौ सुप्तौ क्वचिन्निद्रान्तरैषिणौ। तौ वत्सान्पालयन्तौ हि शोभयन्तौ महद्वनम्
चञ्चूर्यन्तौ रमन्तौ च राजन्नेवं तदा शुभम्। ततो बृन्दावनं गत्वा वसुदेवसुतावुभौ। गोकुलं तत्र कौन्येय चारयन्तौ विजह्रतुः
ततः कदचिद्गोविन्दो ज्येष्ठं सङ्कर्षणं विना। चचार तद्वनं रम्यं सुस्वरूपो वराननः
काकपक्षधरः श्रीमाञ्छ्यामः पद्मनिभेक्षणः। श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा
रज्जुयज्ञोपवीती स पीताम्बरधरो युवा। श्वेतचन्द्रनलिप्राङ्गो नीलकुञ्चितमूर्धजः
राजता बर्हिपत्रेण मन्दमारुतकम्पिना। क्वचिद्गायन्क्वञ्चित्क्रीडन्क्वचिन्नृत्यन्क्वचिद्धसन्
गोपवेणुं सुमधुरं कामं तदपि वादयन्। प्रह्लादनार्थं च गवां क क्वचिद्वनगतो युवा
गोकुले मेघकाले तु चचार द्युतिमान्प्रभुः। बहुरम्येषु देशेषु वनस्य वनराजिपु
तासु कृष्णो मुदा युक्तः क्रीडयन्भरतर्षभ। स कदाचिद्वने तस्मिन्गोभिः सह परिव्रजन्
भाण्डीरं नाम दृष्ट्वाऽथ न्यग्रोधं केशवो महान्। तच्छायायां मतिं चक्रे निवासाय तदा प्रभुः
स तत्र वयसा तुल्यैर्बत्सपालैस्तदाऽनघ। रेमे स दिवसं कृष्णः पुरा स्वर्गगतो यथा
तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनः। रमयन्ति स्म बहवो मान्यैः क्रीडनकैस्तदा
अन्ये स्म परिगायन्ति गोपा मुदितमानसाः। गोपालकृष्णमेवान्ये गायन्ति स्म वनप्रियाः
तेषां सङ्गायतामेव वादयामास केशवः। पर्णवाद्यान्तरे वेणुं तुम्बवीणां च तत्र वै
एवं क्रीडान्तरैः कृष्णो गोपालैर्विजहार सः। तेन बालेन कौन्तेय कृतं लोकहितं तदा
पश्यतां सर्वभूतानां वासुदेवेन भारत। ह्रदे निपातता तत्र क्रीडितं नागमूर्धनि
शासयित्वा तु कालीयं सर्वलोकस्य पश्यतः। विजहार ततः कृष्णो बलेदवसहायवान्
धेनुको दारुणो राजन्दैत्यो रासभविग्रहः। तदा तालवने राजन्बलदेवेन वै हतः