तं दृष्ट्वाऽऽवेष्टितकरः पतत्येष गजो जलम्। दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्
विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्। कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः। कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः
तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ। उपयुज्याशु कर्मेदं साधये हितमात्मनः
महाभ्रघनसंकाशं तं भुक्त्वामृतमानय। महागिरिसमप्रख्यं घोररूपं च हस्तिनम्
इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा। युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम्। शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डजा
युध्यमानस्य सङ्ग्रामे देवैः सार्धं महाबल। ऋचो यजूंषि सामानि पवित्राणि हवींषि च
रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम्। `वर्धयिष्यन्ति समरे भविष्यति खगोत्तम।' इत्युक्तो गरुडः पित्रा गतस्तं ह्वदमन्तिकात्
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम्। स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्। सधुत्पपात चाकाशं तत उच्चैर्विहङ्गमः
सोऽलम्बं तीर्थणासाद्य देववृक्षानुपागमत्। ते भीताः समकम्पन्त तस्य पक्षानिलाहताः
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः। प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः। काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः। सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्
तेषां मध्ये महानासीत्पादपः सुमनोहरः। सहस्रयोजनोत्सेधो बहुशाखासमन्वितः
खगानामालयो दिव्यो नाम्ना रौहिणपादपः। यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः;
तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः। अतिप्रवृद्धः समुहानापतन्तं मनोजवम्
यैषा मम महाशाखा शतयोजनमायता। एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ
ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन्। खगोत्तमो द्रुतमभिपत्य वेगवा- न्बभञ्ज तामविरलपत्रसंचयाम्
स्पष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा। अभज्यत तरोः शाखा भग्नां चैकामधारयत्
तां भङ्क्त्वा स महाशाखां स्मयमानो विलोकयन्। अथात्रं लम्बतोऽपश्यद्वालखिल्यानधोमुखान्
ऋषयो ह्यत्र लम्बन्ते न हन्यामिति तानृषीन्। तपोरतांल्लम्बमानान्ब्रह्मर्षीनभिवीक्ष्य सः
हन्यादेतान्संपतन्ती शाखेत्यथ विचिन्त्य सः। नखैर्दृढतरं वीरः संगृह्य गजकच्छपौ
स तद्विनाशसंत्रासादभिपत्य स्वगाधिपः। शाखामास्येन जग्राह तेषामेवान्ववेक्षया
अतिदैवं तु तत्तस्य कर्म दृष्ट्वा महर्षयः। विस्मयोत्कम्पहृदया नाम चक्रुर्महाखगे
गुरुं भारं समासाद्योड्डीन एष विहङ्गमः। गरुडस्तु खगश्रेष्ठस्तस्मात्पन्नगभोजनः
ततः शनैः पर्यपतत्पक्षैः शैलान्प्रकम्पयन्। एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः
दयार्थं वालखिल्यानां न च स्थानमविन्दत। स गत्वा पर्वतश्रेष्ठं गन्धमादनमञ्जसा
ददर्श कश्यपं तत्र पितरं तपसि स्थितम्। ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम्
तेजोवीर्यबलोपेतं मनोमारुतरंहसम्। शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम्