यदा दिवि विभुस्तात न रेमे भगवानसौ। ततो व्यादिशय भूतानि विभुर्भूमिसुखावहः
निग्रहार्थाय दैत्यानां चोदयामास वै तदा। मुरुतश्च वसूंश्चैव सूर्याचन्द्रमसावुभौ
गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाऽश्विनौ। जायध्वं मानुषे लोके सर्वलोकमहेश्वराः
जङ्गमानि विशालाक्षो ह्यात्मार्थमसृजत्प्रभुः। जायन्तामिति गोविन्दस्तिर्यग्योनिगतैः सह
तानि सर्वाणि सर्वज्ञो व्यजायत यदोः कुले। आत्मानमात्मना तात कृत्वा बहुविधं हरिः। रत्यर्थमिह गास्तत्र ररक्ष पुरुषोत्तमः
अजातशत्रो जातस्तु यथेष्ट भुवि भूमिप। कीर्त्यमानं मया तात निबोध भरतर्षभ
सागराः समकम्पन्त मुदा चेलुश्च पर्वताः। जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने
शिवाः सम्प्रववुर्वाताः प्रशान्तमभवद्रजः। ज्योतींषि सम्प्रकाशन्त जायमाने जनार्दने
देवदुन्दुभयश्चापि सस्वनुर्भृशमम्बरे। अभ्यवर्षंस्तदाऽऽगम्य देवताः पुष्पवृष्टिभिः
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्वै मधुसदनम्। उपतस्थुस्तदा प्रीताः प्रादुर्भावे महर्षयः
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन्। उपानृत्यन्नुपजगुर्गन्धर्वाप्सरसां गणाः
उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः। अभ्यभाषत तेजस्वी महर्षीन्पूजयंस्तदा
कृत्वा च देवकार्याणि कृत्वा देवहितानि च। खं लोकं लोककृद्देवः पुनर्गच्छति तेजसा
इत्युक्त्वा ऋषिभिः सार्घं जगाम त्रिदिवं पुनः। अभ्यनुज्ञाय तान्सर्वाञ्छादयन्प्रकृतिं पराम्
नन्दगोपकुले कृष्ण उवास बहुलाः समाः। ततः कदाचित्सुप्तं तं शकटस्य त्वधः शिशुम्
यशोदा सम्परित्यज्य जगाम यमुनां नदीम्। शिशुलीलां ततः कुर्वन्स्वहस्तचरणौ क्षिपन्
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन्। पादाङ्गुष्ठेन शकटं दारयन्नथ केशवः
तत्र एकेन पादेन पातयित्वा तथा शिशुः। न्युब्जं पयोधराकाङ्क्षी ससार च रुरोद च
पाटितं शकटं दृष्ट्वा भिन्नभाण्डपुटीकटम्। जनास्ते शिशुना तेन विस्मयं परमं ययुः
प्रत्यक्षं शूरसेनानां दृश्यते महदद्भुतम्। शयानेन हतः कंसपक्षवांस्तिग्मतेजसा
पूतना चापि निहता महाकाया महास्तनी। ततः काले महाराज संसक्तौ रामकेशवौ
कृष्णः सङ्कर्षणश्चोभौ रिङ्खिणौ च बभूवतुः। अन्योन्यकिरणाक्रान्तौ चन्द्रसूर्याविवाम्बरे
विसर्पन्तौ च सर्वत्र महासर्पभुजौ तदा। रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप
क्वचिच्च जानुभिः स्पृष्टौ क्रीडमानौ क्वचिद्वने। पिबन्तौ दधिकुल्यांश्च मथ्यमाने च भारत
ततः स बालो गोविन्दो नवनीतं तदा क्षयम्। ग्रासमानस्तु तत्रायं गोपीभिर्ददृशे तथा
दाम्नाऽथोलूखले कृष्णो गोपीभिश्च निबन्धितः। तत्तथा शिशुना तेन कर्षता चार्जुनावृभौ
समूलविटपौ भग्नौ तदद्भुतमिवाभवत्। ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ
तस्मिन्नेव व्रजस्थाने सप्तवर्षै बभूवतुः। नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ
बभुवतुर्वत्सपालौ काकपक्षधरावुभौ। पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ
शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ। मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ