भास्कराकारमुकुटः शिञ्जिताभरणाङ्गदः। धूम्रकेतुर्हरिश्मश्रुर्निर्दष्टोष्ठपुटाननः
त्रैलोक्यान्तरविस्तारं धारयन्विपुलं वपुः। तर्जयन्वै रणे देवाञ्छादयन्वै दिशो दश
अभ्यधावत्सुसङ्क्रुद्धो व्यादितास्य इवान्तकः। तत्र शस्त्रप्रतानैश्च देवान्धर्षितवान्त्रणे
अभ्याययुः सुरान्सर्वान्पुनस्ते दैत्यदानवाः। आपीडयन्त्रणे क्रुद्धास्ततो देवान्युधिष्ठिर
ते वध्यमाना विबुधाः समरे कालनेमिना। दैत्यैश्चैव महाराज दुद्रुवुस्ते दिशो दश
विबुधान्विद्रुतान्दृष्ट्वा कालनेमिर्महा।ञसुरः। इन्द्रं यमं च वरुणं वायुं च धनदं रविम्
एतांश्चान्यान्बलाञ्जित्वा तेषां कार्याण्यवाप सः। तान्सर्वान्सहसा जित्वा कालनेमिर्महासुरः
ददर्श गगने विष्णुं सुपर्णस्थं महाद्युतिम्। तं दृष्ट्वा क्रोधताम्राक्षस्तर्जयन्नभ्ययात्तदा
स बाहुशतमुद्यम्य सर्वास्त्रग्रहणं रणे। रोषाद्भारत दैत्येन्द्रो विष्णोरुरसि पातयत्
दैत्याश्च दानवाश्चैव सर्वे मयपुरोगमाः। स्वान्यायुधानि सङ्गृह्य सर्वे विष्णुमुपाद्रवन्
स ताड्यमानो।ञतिबलैर्दैत्यैः सर्वायुघोद्यतैः। न चचाल हरिर्युद्धेऽकम्पमान इवाचलः
पुनरुद्यम्य सङ्क्रुद्धः कालनेमिर्दृढां गदाम्। जघान गदया राजंस्तं विष्णुं गरुडं च वै
तं दृष्ट्वा गुरडं श्रान्तं चक्रमुद्यस्य वै हरिः। शतं शिरांसि बाहूंश्च सोच्छिनत्कालनेमिनः
जघानान्यांस्च तान्सर्वान्समरे दैत्यदानवान्। विबुधानामृषीणां च स्वानि स्थानानि वै ददौ
दत्त्वा सुराणां सुग्रीतो योग्यकर्माणि भारत। जगाम ब्रह्मणा सार्धं ब्रह्मलोकं तदा हरिः
ब्रह्मलोकं प्रविश्याश्च प्राप्य नारायणः प्रभुः। पौराणं ब्रह्मसदनं दिव्यं नारायणाश्रयम्
स प्रविश्य तदा देवः स्तूयमानो महर्षिभिः। सहस्रशीर्षा भूत्वा च शयनायोपचक्रमे
आदिदेवः पुराणात्मा निद्रावशमुपागतः। शेते सुखं सदा विष्णुर्मोहयञ्जगदव्ययः
जग्मुस्तस्याथ वर्षाणि शयानस्य महात्मनः। षट्त्रिंशच्छतसाहस्रं मानुषेणेह सङ्ख्यया
जग्मुः कृतयुगत्रेताद्वापरान्ते बुबोध ह। ब्रह्मादिभिः स्तूयमानः सुरैश्चापि सहर्षिभिः
उत्पत्य शयनाद्विष्णुर्ब्रह्मणा विबुधैः सह। देवानां च हितार्थाय ययौ देवसभां प्रति
मेरोः शिरसि विन्यस्तां ज्वलन्तीं तां शुभां सभाम्। विविशुस्ते सुराः सर्वे ब्रह्मणा सह भारत
जग्मुस्तत्र निषेदुस्ते सा निःशब्दा ह्यभूत्तदा। तत्र भूमिरुवाचाथ खेदात्करुणभाषिणी
राज्ञां बलैर्बलवतां खिन्नास्मि भृशपीडिता। नित्यं भारपरिश्रान्ता दुःखं जीवाम्यहं सुराः
पुरे पुरे च नृपतिः कोटिसङ्ख्यैर्बलैर्वृतः। राष्ट्रे राष्ट्रे च शतशो ग्रामाः कुलसहस्रिणः
भूमिपानां सहस्रैश्च तेषां च बिलनां बलैः। ग्रामायुतैः पुरै राष्ट्रैरहं निर्विवरीकृता
तस्माद्धारयितुं शक्त्या न क्षमासि जनानहम्। दैत्यैश्च बाध्यमानास्ताः प्राज नित्यं दुरात्मभिः
भूमेस्तु वचनं श्रुत्वा देवो नारायणस्तदा। व्यादिश्य तान्सुरान्सर्वान्क्षितौ वस्तुं मनो दधे
यच्चके भगवान्विष्णुर्वसुदेवसुतस्तदा। तत्तेऽहं सम्प्रवक्ष्यामि शृणु स्रवमशेषतः
वासुदेवस्य महात्म्यं चरितं च महात्मनः। हितार्थं सुरसर्त्यानां लोकानां च हिताय च