ततः कृष्णो महाबाहुर्भीतानामभयङ्करः। अष्टाविंशे युगे राजञ्जज्ञे श्रीवत्सलक्षणः
पेशलश्च वदान्यश्चलोके बहुमतो नृषु। स्मृतिमान्देशकालज्ञः शङ्खचक्रगदासिभृत्
वासुदेव इति ख्यातो लोकानां हितकृत्सदा। वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया
शत्रूणां भयकृद्दाता मधुहेति स विश्रुतः। शकटार्जुनरामाणां कीलस्थानान्यसूदयत्
कंसादीन्निजघानाजौ दैत्यान्मानुषविग्रहान्। अयं लोकहितार्थाय प्रादुर्भावो महात्मनः
कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते हरिः। लेर्युगान्ते सम्प्राप्ते धर्मे शिथिलतां गते
पाषण्डिनां गणानां हि वधार्थं भरतर्षभ। धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया
एते चान्ये च बहवो विष्णोर्देवगणैर्युताः। प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः
एवमुक्ते तु कौन्तेयस्ततः कौरवनन्दनः। आबभाषे पुनर्भीष्णे धर्मराजो युधिष्ठिरः
भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः। जन्म वृष्णिषु विज्ञातुमिच्छामि वदतां वर
यथैव भगवाञ्जातः क्षिताविह जनार्दनः। माधवेषु महाबुद्धिस्तन्मे ब्रूहि पितामह
एवमुक्तस्ततो भीष्मः केशवस्य महात्मनः। माधवेषु तथा जन्म कथयामास वीर्यवान्
हन्त ते कथयिष्यामि युधिष्ठिर यथातथम्। यतो नारायणस्येह जन्म वृष्णिषु कौरव
पुरा लोके महाराज वर्तमाने कृते युगे। आसीत्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः
विरोचनो मयस्तारो वराहः श्वेत एव च। विप्रचित्तिः प्रलम्बश्च वृत्रजम्भबलादयः
नमुचिः कालनेमिश्च प्रह्लाद इति विश्रुतः। लम्बः किशोरः स्वर्भानुररिष्टो राक्षसेश्वरः
एते चान्ये च बहवो दैत्यसङ्घाः सहस्रशः। नानाशस्त्रधरा राजन्नानाभूषणवाहनाः
देवतानामभिमुखास्तस्थुर्दैतेयदानवाः। देवास्तु युध्यमानास्ते दानवानभ्ययू रणे
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः। इन्द्रो यमश्च वरुणश्चन्द्रश्चैव धनेश्वरः
अश्विनौ च महावीर्यौ ये चान्ये देवतागणाः। चक्रुर्युद्धं महाघोरं दानवैश्च यथाक्रमम्
युध्यमानाः समेयुश्च देवा दैतेयदानवैः। तद्युद्धमभवद्घोरं देवदानवसङ्कुलम्
ताभ्यां बलाभ्यां सञ्जज्ञे तुमुलो विग्रहस्तदा। तीक्ष्णशस्त्रैः किरन्तोऽथ अभ्ययुर्देवदानवाः
घ्रन्ति देवान्सगन्धर्वान्सयक्षोरगचारणान्। ते वध्यमाना दैतेयैर्देवसङ्घास्तदा रणे
त्रातारं मनसा जग्मुर्देवं नारायमं प्रभुम्। एतस्मिन्नन्तरे तत्र जगाम हरिरीश्वरः
दीपयञ्ज्योतिषा भूमिं शङ्खचक्रगदाधरः। तमागतं सुपर्णस्थं विष्णुं लोकनमस्कृतम्
दृष्ट्वा मुदा युताः सर्वे भयं त्यक्त्वा रमे सुराः। चक्रुर्युद्धं पुनः सर्वे देवा दैतेयदानवैः
तद्युद्धमभवद्घोरमचिन्त्यं रोमहर्षणम्। जघ्रुर्दैत्यान्त्रणे घोराः सर्वे शक्रपुरोगमाः
ते बाध्यमाना बिबुधैर्दुद्रुवुदैत्यदानवाः
विद्रुतान्दानवान्दृष्ट्वा तदा भारत संयुगे। कालनेमिरिति ख्यातो दानवः प्रत्यदृश्यता
शत्रुप्रहरणे घोरः शतबाहुः शताननः। शतशीर्षः स्थितः श्रीमाञ्छतशृङ्गं इवाचलः