न दस्युजं भयं चासीद्रामे राज्यं प्रशसति। ऋषीणां देवतानां च मनुष्याणां तथैव च
पृथिव्यां धार्मिकाः सर्वे रामे राज्यं प्रशासति। नाधर्मिष्ठो नरः कश्चिद्बभूव प्राणिनां क्वचित्
प्राणापानौ समौ ह्यास्तां रामे राज्यं प्रशासति। गाधामप्यत्र गायन्ति ये पुराणविदो जनाः
श्यामो युवा लोहिताक्षो मातङ्गानामिवर्षभः। आजानुबाहुः सुमुखः सिंहस्कन्धो महाबलः
दशवर्षसहस्राणि दशवर्षशतानि च। राज्यं भोगं च सम्प्राप्य शशास पृथिवीमिमाम्
रामो रामो राम इति प्राजानामभवन्कथाः। रामभूतं जगदिदं रामे राज्यं प्रशासति
ऋग्यजुः सामहीनाश्च न तदाऽसन्द्विजायः। उषित्वा दण्डके कार्यं त्रिदशानां चकार सः
पूर्वापकारिणं तं तु पौलस्त्यं मनुजर्षभम्। देवगन्धर्वनागानामरिं स निजघानह
सत्ववान्गुणसम्पन्नो दीप्यमानः स्वतेजसा। एवमेव महाबाहुरिक्ष्वाकुकुलवर्धनः
रावणं सगणं हत्वा दिवमाक्रमताभिभूः। ति दाशरथेः ख्यातः प्रादुर्भावो महात्मनः
ततः कृष्णो महाबाहुर्भीतानामभयङ्करः। अष्टाविंशे युगे राजञ्जज्ञे श्रीवत्सलक्षणः
पेशलश्च वदान्यश्चलोके बहुमतो नृषु। स्मृतिमान्देशकालज्ञः शङ्खचक्रगदासिभृत्
वासुदेव इति ख्यातो लोकानां हितकृत्सदा। वृष्णीनां च कुले जातो भूमेः प्रियचिकीर्षया
शत्रूणां भयकृद्दाता मधुहेति स विश्रुतः। शकटार्जुनरामाणां कीलस्थानान्यसूदयत्
कंसादीन्निजघानाजौ दैत्यान्मानुषविग्रहान्। अयं लोकहितार्थाय प्रादुर्भावो महात्मनः
कल्की विष्णुयशा नाम भूयश्चोत्पत्स्यते हरिः। लेर्युगान्ते सम्प्राप्ते धर्मे शिथिलतां गते
पाषण्डिनां गणानां हि वधार्थं भरतर्षभ। धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया
एते चान्ये च बहवो विष्णोर्देवगणैर्युताः। प्रादुर्भावाः पुराणेषु गीयन्ते ब्रह्मवादिभिः
एवमुक्ते तु कौन्तेयस्ततः कौरवनन्दनः। आबभाषे पुनर्भीष्णे धर्मराजो युधिष्ठिरः
भूय एव मनुष्येन्द्र उपेन्द्रस्य यशस्विनः। जन्म वृष्णिषु विज्ञातुमिच्छामि वदतां वर
यथैव भगवाञ्जातः क्षिताविह जनार्दनः। माधवेषु महाबुद्धिस्तन्मे ब्रूहि पितामह
एवमुक्तस्ततो भीष्मः केशवस्य महात्मनः। माधवेषु तथा जन्म कथयामास वीर्यवान्
हन्त ते कथयिष्यामि युधिष्ठिर यथातथम्। यतो नारायणस्येह जन्म वृष्णिषु कौरव
पुरा लोके महाराज वर्तमाने कृते युगे। आसीत्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः
विरोचनो मयस्तारो वराहः श्वेत एव च। विप्रचित्तिः प्रलम्बश्च वृत्रजम्भबलादयः
नमुचिः कालनेमिश्च प्रह्लाद इति विश्रुतः। लम्बः किशोरः स्वर्भानुररिष्टो राक्षसेश्वरः
एते चान्ये च बहवो दैत्यसङ्घाः सहस्रशः। नानाशस्त्रधरा राजन्नानाभूषणवाहनाः
देवतानामभिमुखास्तस्थुर्दैतेयदानवाः। देवास्तु युध्यमानास्ते दानवानभ्ययू रणे
आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः। इन्द्रो यमश्च वरुणश्चन्द्रश्चैव धनेश्वरः
अश्विनौ च महावीर्यौ ये चान्ये देवतागणाः। चक्रुर्युद्धं महाघोरं दानवैश्च यथाक्रमम्