सोऽस्य भागस्तपस्तेपे भार्गवो लोकविश्रुतः
शृणु राजंस्ततो विष्णोः प्रादुर्भावं महात्मनः। अष्टाविंशे युगे चापि मार्कण्डेयपुरः सरः
तिथौ नावमिके जज्ञे तथा दशरथादपि। कृत्वाऽऽत्मानं महाबाहुश्चतुर्धा विष्णुरव्ययः
लोके राम इति ख्यातस्तेजसा भास्करोपमः। प्रसादनार्थं लोकस्य विष्णुस्तत्र सनातनः
धर्मार्थमेव कौन्तेय जज्ञे तत्र महायशाः। तमप्याहुर्मनुष्येन्द्रं सर्वभूतपतेस्तनुम्
यज्ञविघ्नकरस्तत्र विश्वामित्रस्य भारत। सुबाहुर्निहतस्तेन मारीचस्ताडितो भृशम्
तस्मै दत्तानि चास्राणि विश्वमित्रेण धीमता। वधार्थं सर्वशत्रूणां दुर्वाराणि सुरैरपि
वर्तमाने महायज्ञे जनकस्य महात्मनः। भग्नं माहेश्वरं चापं क्रीडता लीलया भृशम्
ततस्तु सीतां जग्राह भार्यार्थे जानकीं विभुः। नगरीं पुनरासाद्य मुमुदे तत्र सीतया
कस्यचित्त्वथ कालस्य पित्रा तत्राभिचोदितः। कैकेय्याः प्रियमन्विच्छन्वनमभ्यवपद्यत
यः समाः सर्वधर्मज्ञश्चतुर्दश वने वसन। लक्ष्मणानुचरो रामः सर्वभूतहिते रतः
चतुर्दश वने तीर्त्वा तदा वर्षाणि भारत। रूपिणी यस्य पार्श्वस्था सीतेत्यभिहिता जनैः
पूर्वोचितत्वात्सा लक्ष्मीर्भर्तारमनुशोचति। जनस्थाने वसन्कार्यं त्रिदशानां चकार सः
मारीचं दूषणं हुत्वा खरं त्रिशिरसं तथा। चतुर्दश सहस्राणि रक्षसां घोरकर्मणाम्
जघान रामो धर्मात्मा प्रजानां हितकाम्यय। विराधं च कबन्धं च राक्षसौ घोरकर्मिणौ
जघान च तदा रामो गन्धर्वौ शाषविक्षतौ। स रावणस्य भगिनीनासाच्छेदमकारयत्
भार्यावियोगं तं प्राप्य मृगयन्व्यचरद्वनम्। स तस्मादृश्यमूकं तु गत्वा पम्पामतीत्य च
सुग्रीवं मारुतिं दृष्ट्वा चक्रे मैत्रीं तयोः स वै। अथ गत्वा स किष्किन्धां सुग्रीवेण तदा सह
निहत्य वालिनं युद्धे वानरेद्रं महाबलम्। अभ्यपिञ्चत्तदा रामः सुग्रीवं वानरेश्वरम्
ततः स वीर्यवान्राजंस्त्वरया वै समुत्सुकः। विचित्य वायुपुत्रेण लङ्कादेशं निवेदितः
मेतुं वद्ध्वा समुद्रस्य वानरैः स समुत्सुकः। सीतायाः पदमन्विच्छन्रामो लङ्कां विवेश वै
देवोरगगणानां हि यक्षराक्षसपक्षिणाम्। तत्रावद्यं राक्षसेन्द्रं रावणं युधि दुर्जयम्
युक्तं राक्षसकोटीभिर्भिन्नाञ्जनचयोपमम्। दुर्निरीक्ष्यं सुरगणैर्वरदानेन दर्पितम्
जघान सचिवैः सार्धं सान्वयं रावणं रणे
त्रैलोक्यकण्टकं वीरं महाकायं महाबलम्। रावमं सगणं हत्वा रामो भूतपतिः पुरा
लङ्कायां तं महात्मानं राक्षसेन्द्रं विभीषणम्। अभिषिच्य ततो राम अमरत्वं ददौ तदा
आरुह्य पुष्पकं रामः सीतामादाय पाण्डव। सबलं स्वपुरं गत्वा धर्मराज्यमपालयत्
दानवो लवणो नाम मधोः पुत्रो महाबलः। शत्रुघ्नेन हतो राजंस्तदा रामस्य शासनात्
एवं बहूनि कर्माणि कृत्वा लोकहिताय सः। राजं चकार विधिवद्रामो धर्मभृतां वरः
शताश्वमेधानाजह्रे ज्योतिरुक्थ्यान्निरर्गलान्। नाश्रूयन्ताशुभा वाचो नात्ययः प्राणिनां तदा