जमदग्निसुतो राजन्त्रामो नाम स वीर्यवान्। हेहयान्तकरो राजन्स रामो बलिनां वरः
कार्तावीर्यो महावीर्यो बलेनाप्रतिमस्तदा। रामेण जामदग्न्येन हतो विषममाचरन्
तं कार्तवीर्यं राजानं हेहयानामरिन्दमम्। रथस्थं पार्थिवं रामः पातयित्वाऽवधीद्रणे
जम्भस्य यज्ञं हत्वा स ऋत्विजश्चैव संस्तरे। जम्भस्य मूर्ध्नि भेत्ता च हन्ता च शतदुन्दुभेः
स एष कृष्णो गोविन्दो जातो भृगुषु वीर्यवान्। सहस्रबाहुमुद्धर्तुं सहस्रजितमाहवे
क्षत्रियाणां चतुष्पष्टिमयुतानि महायशाः। सरस्वत्यां समेतानि एष वै धनुषाऽजयत्
ब्रह्मद्विषां धे तस्मिन्महस्राणि चतुर्दश। पुनर्जघान शूराणामतिक्रूरो रथर्षभः
ततो राज्ञां सहस्रं स भङ्क्ता पूर्वमरिन्दमः। सहस्रं मुसलेनाहन्सहस्रमुदकृन्तत
चतुर्दशसहस्राणि कृणदूममपाययत्। शिष्टान्ब्रह्मद्विषो जित्वा ततोऽस्नायत भार्गवः
रामरामेत्यमिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः। निघ्नञ्शतसहस्राणि रामः परशुनाभिभूः
न ह्यमृष्यत तां वाचमार्तैर्भृशमुदीरिताम्। भृगो रामाभिधावेति यदाऽक्रन्दन्द्विजातयः
काश्मीरान्दरदान्कुन्तीन्क्षुद्रकान्मालवाञ्छवान्। चेदिकाशिकरूशांश्च ऋषिकान्क्रथकैशिकान्
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान्। रात्रायणान्वीतिहोत्रान्किरातान्कार्तिकावतान्
एतानन्यांश्च राजन्यान्देशेदेशे सहस्रशः। निकृत्य निशितैर्बाणैः सम्प्रदाय विवस्वते
कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा। त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता
कृत्वा निःक्षत्रियां चैव भार्गवः स महायशाः। इन्द्रगोपकवर्णस्य जीवञ्जीवनिभस्य च
पूरयित्वा च सरितः क्षतजस्य सरांसि च। चकार तर्पणं वीरः पितॄणां तासु तेषु च
सर्वानष्टादश द्वीपान्वशमानीय भार्गवः। सोऽश्वमेधसहस्राणि नरमेधशतानि च
इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ। तस्याग्रेणानुपर्येति भूमिं कृत्वा विपांसुलाम्
ततः कालकृतां सत्यां भार्गवाय महात्मने। गाधामप्यत्र गायन्ति ये पुराणविदो जनाः
वेदिमष्टादशोत्सेधां हिरण्यस्यातिपौरुषीम्। रामेण जामदग्न्येन प्रतिजग्राह काश्यपः
एवमिष्ट्वा महाबाहुः क्रतुभिर्भूरिदक्षिणैः। अन्यद्वर्षशतं रामः सौभे साल्वमयोधयत्
ततः स भृगुशार्दूलस्तं सौभं योधयन्प्रभुः। सुबन्धुरं रथं राजन्नास्थाय भरतर्षभ
नग्निकानां कुमारीणां गायन्तीनामुपाशृणोत्। रामराम महाबाहो भृगूणां कीर्तिवर्धन
त्यज शस्त्राणि सर्वाणि न त्वं सौभं वधिष्यसि। शङ्खचक्रगदापाणिर्देवानामभयङ्गरः
युधि प्रद्युम्नसाम्बाभ्यां कृष्णः सौभं वधिष्यति। तच्छ्रुत्वा पुरुषव्याघ्रस्तत एव वनं ययौ
न्यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः। रथं सर्वायुधं चैव शरान्परशुमेव च
धनूंष्यप्सु प्रतिष्ठाप्य रामस्तेपे परं तपः। ह्रियं प्रज्ञां श्रियं कीर्तिं लक्ष्मीं चामित्रकर्शनः
पञ्चाधिष्ठाय धर्मात्मा तं रथं विससर्ज ह। आदिकाले प्रवृत्तं तु व्यभजत्करमीश्वरः
नाघ्नतं श्रद्धया सौभं न ह्यशक्तो महायशाः। जामदग्न्य इति ख्यातो यस्त्वयं भगवानुपिः