तद्धि रूपमुपेन्द्रस्य देवदानवमानवाः। दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोऽभिपीडिताः
बलिर्बद्धोऽभिमानी च यज्ञवाटे महात्मना। विरोचनकुलं सर्वं पाताले विनिवेशितम्
एवंविधानि कर्माणि कृत्वा गरुडावाहनः। न विस्मयमुपागच्छत्पारमेष्ठ्येन तेजसा
स सर्वमसुरैश्वर्यं सम्प्रदाय शचीपतेः। त्रैलोक्यं च ददौ शक्रे विष्णुर्दानवसूदनः
एष ते वामनो नाम प्रादुर्भावो महात्मनः। वेदविद्भिर्द्विजैरेतच्छ्रूयते वैष्णवं यशः। मानुषेषु ततो विष्णोः प्रादुर्भावांस्तथा शृणु
विष्णोः पुनर्महाभागः प्रादुर्भावो महात्मनः। दत्तात्रेय इति ख्यात ऋषिरासीन्महायशाः
तेन नष्टेषु वेदेषु क्रियासु च मखेषु च। चातुर्वर्ण्ये च सङ्कीर्णे धर्मे शिथिलतां गते
अभवर्धति चाधर्मे सत्ये नष्टे स्थितेऽनृते। प्रजासु क्षीयमाणासु धर्मे चामूलतां पते
सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै। चातुर्वर्ण्यमसङ्कीर्णं कृतं तेन महात्मना
स एव वै यदा प्रादाद्धैहयाधिपतेर्वरम्। तं हैहयानामधिपस्त्वर्जुनोऽभिप्रसादयन्
वनं पर्यचरन्सम्यक्छुश्रूषुरनुसूयकः। निर्ममो निरहङ्कारो दीर्घकालमतोषयत्
आराध्य दत्तात्रेयं हि अगृङ्णात्स वरानिमान्। आप्तादाप्ततरान्विप्राद्विद्वान्विद्वन्निषेवितात्
ऋतेऽमरत्वं विप्रेण दत्तात्रेयेण धीमता। वरैश्चतुर्भिः प्रवृत इमान्वव्रे वरान्नृपः
श्रीमान्मनस्वी बलवान्सत्यवागनसूयकः। सहस्रबाहुर्भूयासमेषु मे प्रथमो वरः
जरायुजाण्डजं सर्वं सर्वं चैव चराचरम्। शास्तुमिच्छामि धर्मेण द्वितीयस्त्वेष मे वरः
पितृन्देवानृषीन्विप्रान्यजेयं विपुलैर्मखैः। अमित्रांश्च शितैर्बाणैस्तृतीयो व्रर एष मे
यस्य नासीन्न भविता न चास्ति सदृशः पुमान्। इह वा दिवि वा लोके स मे हन्ता भवेदिति
सोऽर्जुनः कृतवीर्यस्य वरः पुत्रोऽभवद्युधि। स सहस्रं सहस्राणां माहिष्मत्यामवर्धत
स भूमिमखिलां जित्वा द्वीपांश्चापि समुद्रिणः। नभसीवाज्वलत्सूर्यः पुण्यैः कर्मभिर्जुनः
इन्द्रद्वीपं कशेरुं च कामद्वीपं गभस्तितम्। गन्धर्ववरुणद्वीपं सौहृष्टममितप्रभः
पूर्वैरजितपूर्वांश्च द्वीपनजयदर्जुनः। इदं तु कार्तवीर्यस्य बभूवासदृशं जनैः
न पूर्वे नापरे तस्य गमिष्यन्ति गतिं नृपाः। यदर्णवे प्रयातस्य वस्त्रं न परिषिच्यते
सौवर्णं सर्वमप्यासीद्विमानवरमुत्तमम्। चतुर्धा व्यभजद्राष्ट्रं तद्विभज्यान्वपालयत्
एकांशेनाहरत्सेनामेकांशेनावसद्गृहान्। यस्तु तस्य तृतीयांशो राज्ञोऽभूज्जनसङ्ग्रहे
आप्तः परमकल्याणस्तेन यज्ञानकल्पयत्। ये दस्यवो ग्रामचरा अरम्ये च वसन्ति ये
चतुर्थेन तु सोंऽशेन तान्सर्वान्प्रत्यषेधयत्। द्वाराणि नापिधीयन्ते पुरेषु नगरेषु च
स एव राष्ट्रपालोऽभूत्स्रीपालोऽभवदर्जुनः। स एवासीद्जापालः सः गोपालो विशाम्पते
शतं वर्षसहस्राणामनुशिष्यार्जुनो महीम्। दत्तात्रेयप्रसादेन एवं राज्यं चकार सः
एवं बहूनि कर्माणि चक्रे लोकहिताय सः।। दत्तात्रेय इति ख्यातः प्रादुर्भावो ह्ययं हरेः। कथितो भरतश्रेष्ट शृणु भूयो महात्मनः
तथा भृगुकुले जन्म यदर्थं च महात्मनः। जामदग्न्य इति ख्यातः प्रादुर्भावश्च वैष्णवः