अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम्। महातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै
मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह। न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः
तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे। यद्भुक्त्वाऽमृतमाहर्तुं समर्तः स्यामहं प्रभो
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्
यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः। तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यसोषतः
तन्मे तत्त्वं निबोधस्य यत्प्रमाणौ च तावुभौ। `शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम्
पित्रोरर्थविभागे वै समुत्पन्नां पुराण्डज।' आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः। स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः
विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः। अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः
विभागे बहवो दोषा भविष्यन्ति महातपः।' विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः। ततो विभक्तास्त्वन्योन्यं नाद्रियन्तेऽर्थमोहिताः
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः। विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ। भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते
तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः। `एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम्
एवं निर्बध्यमानस्तु शशापैनं विभावसुः।' गुरुशास्त्रेऽनिबद्धानामन्योन्येनाभिशङ्किनाम्
नियन्तु न हि शक्यस्त्वं भेदतो धनमिच्छसि। यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्। त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू। गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि। परस्परद्वेषरतौ प्रमाणबलदर्पितौ
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ। तयोरन्यतरः श्रीमान्समुपैति महागजः
यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः। उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः
तं दृष्ट्वाऽऽवेष्टितकरः पतत्येष गजो जलम्। दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्
विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्। कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः। कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः
तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ। उपयुज्याशु कर्मेदं साधये हितमात्मनः
महाभ्रघनसंकाशं तं भुक्त्वामृतमानय। महागिरिसमप्रख्यं घोररूपं च हस्तिनम्
इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा। युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम्। शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डजा
युध्यमानस्य सङ्ग्रामे देवैः सार्धं महाबल। ऋचो यजूंषि सामानि पवित्राणि हवींषि च
रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम्। `वर्धयिष्यन्ति समरे भविष्यति खगोत्तम।' इत्युक्तो गरुडः पित्रा गतस्तं ह्वदमन्तिकात्
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम्। स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः