अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम्। इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभु षष्टिं शतसहस्राणि चकारान्यां स संहिताम्। त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम्
पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश। एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम्
नारदोऽश्रावयद्देवानसितो देवलः पितृन्। गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः
वैशंपायनविप्रर्षिः श्रावयामास पार्थिवम्। पारिक्षितं महात्मानं नाम्ना तु जनमेजयम्
अस्मिंस्तु मानुषे लोके वैशंपायन उक्तवान्। शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः
एकं शतसहस्रं तु मयोक्तं वै निबोधत
दुर्योधनो मन्युमयो महाद्रुमः कर्णः स्कन्धः शकुनिस्तस्य शाखाः। दुश्शासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रोऽमनीषि
युधिष्ठिरे धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः। माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च। अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा
मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम्। जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति। धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया
ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा। धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च। जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः।' तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च। `तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु
माद्र्या तु सह संगम्य ऋषिशापप्रभावतः। मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ
ऋषिभिश्च समानीता धार्तराष्ट्रान्प्रति स्वयम्। शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः। पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा। शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्
आहुः केचिन्न तस्यैते तस्यैत इति चापरे। यदा चिरमृतः पाण्डुः कथं तस्येतदि चापरे
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम्। उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः
तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन्। अन्तर्हितानां भूतानां निःस्वनस्तुमुलीऽभवत्
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः। आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत्
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः। शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः
तेऽधीत्य निखिलान्वेदाञ्शास्त्राणि विविधानि च। न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन्। धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च। तुतोष लोकः सकलस्तेषां शौर्यगुणेन च
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्। प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्। आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान्। आजहारार्जुनो राज्ञो राजसूयं महाक्रतुम्