महाबलं महावीर्यं वरदानेन गर्वितम्। दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः
हिरण्यकशिपुं हत्वा सर्वदैत्यांश्च वै तदा। विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः
प्रमुमोद हरिर्देवः प्राप्य धर्मं तदा भुवि। एष ते नारसिंहोऽत्र कथितः पाण्डुनन्दन
शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः
पुरा त्रेतायुगे राजन्बलिर्वैरोजनोऽभवत्। दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली
तदा बलिर्महाराज दैत्यसङ्घैः समावृतः। विजेतुं तरसा शक्रमिन्द्रस्थानमवाप सः
तेन वित्रासिता देवा बलिनाऽऽखण्डलादयः। ब्रह्माणं तु पुरस्कृत्य गत्वा क्षीरोदधिं तदा
तुष्टुवुः सहिताः सर्वे देवं नारायणं प्रभुम्। स तेषां दर्शनं चक्रे विबुधानां हरिस्तदा
प्रसादजं तस्य विभोरदित्यां जन्म उच्यते। अदितेरपि पुत्रत्वमेत्य यादवनन्दनः
एष विष्णुरिति ख्यात इन्द्रस्यावरजोऽभवत्। तस्मिन्नेव च काले तु दैत्येन्द्रो बलवीर्यवान्
अश्वमेधं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे। वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर
स विष्णुर्मानवो भूत्वा प्रच्छन्नो ब्रह्मसंवृतः। मुण्डो यत्रोपवीती च कृष्णाजिनधरः शिखी
पालाशदण्डं सङ्गृह्य वामनोऽद्भुतदर्शनः। विश्य स बलेर्यज्ञे वर्तमानो च दक्षिणाम्
देहीत्युवाच दैत्येन्द्रं विक्रमांस्त्रीनिहैव ह। दीयतां त्रिपदीमात्रमित्ययाचन्महासुरम्
स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा। तेन लब्ध्वा हिरर्भूमिं जृम्भयामास वै भृशम्
स शिशुः सदिवं खं च पृथिवीं वच विशाम्पते। त्रिभिर्विक्रमणैश्चैव सर्वमाक्रमताभिभूः
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा। विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः
विप्रचित्तिमुखाः क्रुद्धाः सर्वसङ्घा महासुराः। नानावक्रा महाकाया नानावेषधरा नृप
नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः। स्वान्यायुधानि सङ्गृह्य प्रदीप्ता इव तेजसा
क्रममाणं हरि तत्र उपावर्तन्त भारत। प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैस्तु तान्
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम्। सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः
अत्यरोचत भूतात्मा आदित्यस्यैव तेजसा। प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः
शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन्। तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे
नभस्तु क्रममाणस्य नाभ्यां किल तदा स्थितौ। परमाक्रममाणस्य नानुभ्यां तौ व्यवस्थितौ
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः। अथास्य पादाक्रमणात्पफालाण्डो युधिष्ठिरः
तच्छिद्रात्स्यन्दिनी तस्य पादभ्रष्टा तु निम्नगा। ससार सागरं सा तु पावनी सागरंगमा
जहार मेदिनीं सर्वां हत्वा दानवपुङ्गवान्। आसुरी श्रियमाहृत्य त्रील्लोकान्स जनार्दन
सपुत्रदारानसुरान्पाताले संन्यवेशयत्। नमुचिः शम्बरश्चैव प्रह्लादश्च महामनाः
महाभूतानि भूतात्मा सविशेषानि वै हरिः। कालं च सकलं राजन्गात्रभूतान्यदर्शयत्
तस्य गात्रे जगत्सर्वमानीतमधिपश्यति। न किञ्चिदस्ति लोकेषु यदनाप्तं महात्मना