क्षिप्रमेव करिष्यामि त्वरया दैत्यनाशनम्। तस्मात्त्वं विबुधाश्चैव प्रतिपद्यत वै दिवम्
एवमुक्त्वा तु भगवान्विसृज्य त्रिदिवेश्वरान्। नरस्यार्धतनुर्भूत्वा सिंहस्यार्धतनुः पुनः
नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना। भीमरूपो महातेजा व्यादितास्य इवान्तकः
हिरण्यकशिपुं राजञ्जगाम हरिरीश्वरः। दैत्यास्तमागतं दृष्ट्वा नारसिंहं महाबलम्
ववर्षुः शस्त्रवर्षैस्ते सुसङ्क्रुद्धास्तदा हरिम्। तैः सृष्टसर्वशस्त्राणि भक्षयामास वै हरिः
जघान न रणे दैत्यान्सहस्राणि बहूनि च। तान्निहत्य च दैतेयान्सर्वान्क्रुद्धान्महाबलान्
अभ्यधावत्सुसङ्क्रुद्धो दैत्येन्द्रं बलगर्वितम्। जीमूतघनसङ्काशो जीमूतघननिस्वनः
जीमूत इव दीप्तौजा जीमूत इव वेगवान्। सोऽतिबलं दृप्तं दृप्तशार्दूलविक्रमम्
दृप्तैर्दैत्यगणैर्गुप्तं खरैर्नखमुकैरुत। ततः कृत्वा तु युद्धं वै तेन दैत्येन वै हरिः
सन्ध्याकाले महातेजा भवनान्ते त्वरान्वितः। ऊरौ निधाय दैत्येन्द्रं निर्बिभेद नखैस्तदा
महाबलं महावीर्यं वरदानेन गर्वितम्। दैत्यश्रेष्ठं सुरश्रेष्ठो जघान तरसा हरिः
हिरण्यकशिपुं हत्वा सर्वदैत्यांश्च वै तदा। विबुधानां प्रजानां च हितं कृत्वा महाद्युतिः
प्रमुमोद हरिर्देवः प्राप्य धर्मं तदा भुवि। एष ते नारसिंहोऽत्र कथितः पाण्डुनन्दन
शृणु त्वं वामनं नाम प्रादुर्भावं महात्मनः
पुरा त्रेतायुगे राजन्बलिर्वैरोजनोऽभवत्। दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली
तदा बलिर्महाराज दैत्यसङ्घैः समावृतः। विजेतुं तरसा शक्रमिन्द्रस्थानमवाप सः
तेन वित्रासिता देवा बलिनाऽऽखण्डलादयः। ब्रह्माणं तु पुरस्कृत्य गत्वा क्षीरोदधिं तदा
तुष्टुवुः सहिताः सर्वे देवं नारायणं प्रभुम्। स तेषां दर्शनं चक्रे विबुधानां हरिस्तदा
प्रसादजं तस्य विभोरदित्यां जन्म उच्यते। अदितेरपि पुत्रत्वमेत्य यादवनन्दनः
एष विष्णुरिति ख्यात इन्द्रस्यावरजोऽभवत्। तस्मिन्नेव च काले तु दैत्येन्द्रो बलवीर्यवान्
अश्वमेधं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे। वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर
स विष्णुर्मानवो भूत्वा प्रच्छन्नो ब्रह्मसंवृतः। मुण्डो यत्रोपवीती च कृष्णाजिनधरः शिखी
पालाशदण्डं सङ्गृह्य वामनोऽद्भुतदर्शनः। विश्य स बलेर्यज्ञे वर्तमानो च दक्षिणाम्
देहीत्युवाच दैत्येन्द्रं विक्रमांस्त्रीनिहैव ह। दीयतां त्रिपदीमात्रमित्ययाचन्महासुरम्
स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा। तेन लब्ध्वा हिरर्भूमिं जृम्भयामास वै भृशम्
स शिशुः सदिवं खं च पृथिवीं वच विशाम्पते। त्रिभिर्विक्रमणैश्चैव सर्वमाक्रमताभिभूः
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा। विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः
विप्रचित्तिमुखाः क्रुद्धाः सर्वसङ्घा महासुराः। नानावक्रा महाकाया नानावेषधरा नृप
नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः। स्वान्यायुधानि सङ्गृह्य प्रदीप्ता इव तेजसा
क्रममाणं हरि तत्र उपावर्तन्त भारत। प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैस्तु तान्