राज्यं चकार दैत्येन्द्रो दैत्यसङ्घैः समावृतः। सप्तद्वीपान्वशेचके लोकालोकान्तरं बलात्
दिव्यभोगान्समस्तान्वै लोके सर्वानवाप सः। देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः। यदा वरमदोन्मत्तो न्यवसद्दानवो दिवि
अथ लोकान्सगस्तांश्च विजित्य स महाबलः। भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश। अहं क्रोधश्च कामश्च वरुणो वसवोऽर्यमा
धनदश्च धनाध्यक्षो यक्षकिम्पुरुषाधिपः। एते भवेयमित्युक्त्वा स्वयं भूत्वा बलात्स च
एषां गृहीत्वा स्थानानि तेषां कार्याण्यवाप सः। इज्यश्चासीन्मखवरैर्देवकिन्नरसत्तमैः
नरकस्थान्समानीय स्वर्गस्थांश्च चकार सः। एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली
आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान्। सत्यधर्मपरान्दान्तान्पुरा धर्षितवांस्तु सः
याज्ञीयान्कृतबान्दैत्यन्याजकांश्चैव देवताः। यत्रयत्र सुरा जग्मुस्तत्रतत्र व्रजत्युत
स्थानानि देवतानां तु हृत्वा राज्यमकारयत्। पञ्चकोट्यश्च वर्षाणि अयुतान्येकषष्टि च
षष्टिश्चैव सहस्राणां जग्मुस्तस्य दुरात्मनः। एतद्वर्षं स दैत्येन्द्रो भोगैश्चर्यमवाप सः
तेनातिबाध्यमानास्ते दैत्येन्द्रेण बलीयसा। ब्रह्मलोकं सुरा जग्मुः शर्वशक्रपुरोगमाः
पितामहं समासाद्य खिन्नाः प्राञ्जलयोऽब्रुवन्
भगवन्भूतभव्येश नस्त्रायस्व इहागतान्। भयं दितिसुताद्घोराद्भवत्यद्य दिवानिशम्
भगवन्सर्वदैत्यानां स्वयम्भूरादिकृत्प्रभुः। स्रष्टा त्वं हव्यकव्यानामव्यक्तः प्रकृतिर्ध्रुवः
श्रूयतामापदेवं हि दुर्विज्ञेया मयापि च। नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः
अव्यक्तः सर्वभूतानामचिन्त्यो विभुरव्ययः। ममापि स तु युष्माकं व्यसने परमा गतिः
नारायणः परोऽव्यक्तादहमव्यक्तसम्भवः। मत्तो जज्ञुः प्रजा लोकाः सर्वे देवासुराश्च ते
देवा यथाहं युष्माकं तथा नारायणो मम। पितामहोऽहं सर्वस्य स विष्णुः प्रपितामहः
निश्चितं विषुधा दैत्यं स विष्णुस्तं हनिष्यति। तस्य नास्ति न शक्यं च तस्माद्व्रजत माचिरम्
पितामहवचः श्रुत्वा सर्वे ते भरतर्षभ। विबुधा ब्रह्मणा सार्धं जग्मुः क्षीरोदधिं प्रति
आदित्या वसवः साध्या विश्वे च मरुतस्तथा। रुद्रा महर्षयश्चैव अश्विनौ च सुरूपिणौ
अन्ये च दिव्या ये राजंस्ते सर्वे सगणाः सुराः। चतुर्मुखं पुरस्कृत्य श्वेतद्वीपमुपागताः
त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात्। त्वं हि नः परमो धाता ब्रह्मादीनां सुरोत्तम
उत्फुल्लाम्बुजपत्राक्ष शत्रुपक्षभयङ्कर। क्षयाय दितिवंशस्य शरणं त्वं भविष्यसि
तद्देवानां वचः श्रुत्वा तदा विष्णुः शुचिश्रवाः। अदृश्यः सर्वभूतात्मा वक्तुमेवोपचक्रमे
भयं त्यजध्वममरा अभयं वो ददाम्यहम्। तदेव त्रिदिवं देवाः प्रतिपद्यत माचिरम्
एषोऽहं सगणं दैत्यं वरदानेन दर्पितम्। अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम्
भहवन्देवदेवेश खिन्ना एते भृशं सुराः। तस्मात्त्वं जहि दैत्येन्द्रं क्षिप्रं कालोऽस्य माचिरम्। एष त्वं सगणं दैत्यं वरदानेन दर्पितम्