ततः शमदमाभ्यां च ब्रह्मचर्येण चानघ। ब्रह्मा प्रीतमनास्तस्य तपसा नियमेन च
ततः स्वयम्भूर्भगवान्स्वयमागम्य भूपते। विमानेनार्कवर्णेन हंसयुक्तेन भास्वता
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्तथा। रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः
दिशाभिर्विदिशाभिश्च नदीभिः सागरैः सह। नक्षत्रैश्च मुहूर्तैश्च खेचरैश्चापरैर्ग्रहैः
देवर्षिभिस्तपोयुक्तैः सिद्धैः सप्तर्षिभिस्तदा। राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः
चराचरगुरुः श्रीमान्वृतः सर्वसुरैस्तथा। ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यमागम्य चाब्रवीत्
प्रीतोऽस्मि तव भक्तस्य तपसाऽनेन सुव्रत। वरं वरय भद्रं ते यथेष्टं काममाप्नुहि
न देवा न च गन्धर्वा न यक्षोरगराक्षसाः। न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम
ऋषयो वा न मां शापैः क्रुद्धा लोकपितामह। शपेयुस्तपसा युक्ता वर एष वृतो मया
न शस्त्रेण नचास्त्रेण गिरिणा पादपेन च। न शुष्केण न चार्देण स्यान्न वाऽन्येन मे वधः
नाकाशे नाथ भूमौ वा रात्रौ वा दिवसेपि वा। नान्तर्वा न बहिर्वापि स्याद्वधो मे पितामह
पशुभिर्वा मृगैर्न स्यात्पक्षिभिर्वा सरीसृपैः। ददासि चेद्वरानेतन्देवदेव वृणोम्यहम्
एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः। सर्वकामवरांस्तात प्राप्स्यसि त्वमसंशयम्
एवमुक्त्वा स भगवाञ्जगामाकाशमेव हि। रराज ब्रह्मलोके हि ब्रह्मर्षिगणसेवितः
ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा। वरप्रदानं श्रुत्वैव ते ब्रह्माणमुपस्थितः
वरेणाने भगवन्बाधिष्यति स नोऽसुरः। तत्प्रसीदस्व भगवन्वधोपायोऽस्य चिन्त्यताम्
ततो लोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः। प्रोवाच भगवान्वाक्यं सर्वदेवगणांस्तदा
अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम्। तपसोऽन्तेऽस्य भगवान्वधं कृष्णः करिष्यति
एतच्छ्रुत्वा सुराः सर्वे ब्रह्मणा तस्य वै वधम्। स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः
लब्धमात्रे वरे चापि सर्वास्ता बाधते प्रजाः। हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः
राज्यं चकार दैत्येन्द्रो दैत्यसङ्घैः समावृतः। सप्तद्वीपान्वशेचके लोकालोकान्तरं बलात्
दिव्यभोगान्समस्तान्वै लोके सर्वानवाप सः। देवांस्त्रिभुवनस्थांस्तु पराजित्य महासुरः
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः। यदा वरमदोन्मत्तो न्यवसद्दानवो दिवि
अथ लोकान्सगस्तांश्च विजित्य स महाबलः। भवेयमहमेवेन्द्रः सोमोऽग्निर्मारुतो रविः
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश। अहं क्रोधश्च कामश्च वरुणो वसवोऽर्यमा
धनदश्च धनाध्यक्षो यक्षकिम्पुरुषाधिपः। एते भवेयमित्युक्त्वा स्वयं भूत्वा बलात्स च
एषां गृहीत्वा स्थानानि तेषां कार्याण्यवाप सः। इज्यश्चासीन्मखवरैर्देवकिन्नरसत्तमैः
नरकस्थान्समानीय स्वर्गस्थांश्च चकार सः। एवमादीनि कर्माणि कृत्वा दैत्यपतिर्बली
आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान्। सत्यधर्मपरान्दान्तान्पुरा धर्षितवांस्तु सः
याज्ञीयान्कृतबान्दैत्यन्याजकांश्चैव देवताः। यत्रयत्र सुरा जग्मुस्तत्रतत्र व्रजत्युत