तद्युद्धमभवद्घोरं तयोस्तस्य च भारत। एकार्णवे तदा घोरे त्रैलोक्ये जलतां गते
तदभूत्तुमुलं युद्धं वर्षसङ्ख्यासहस्रशः। न च तावसुरौ युद्धे तदा श्रममवापतुः
अथ दीर्घस्य कालस्य तौ दैत्यौ युद्धदुर्मदौ। ऊचतुः प्रीतमनसौ देवं नारायणं प्रभुम्
प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः। आवां जहि न यत्रोर्वा सलिलेन पिरप्लुता
हतौ च तव पुत्रत्वं प्राप्नुयाव सुरोत्तम। यो ह्यानां युधि निर्जेता तस्यावां विहितौ सुतौ
तयोस्तु वचनं श्रुत्वा तदा नारायणः प्रभुः। तौ प्रहस्य मृधे दैत्यौ दोर्भ्यां च समपीडयम्
ऊरुभ्यां निधनं चक्रे तावुभौ मधुकैठबौ। तौ हतौ चाप्लुतौ तोये वपुर्भ्यामेकतां गतौ
मेदो मुमुचतुर्दैत्यौ मज्जमानौ जलोर्मिभिः। मेदसा तज्जलं व्याप्तं ताभ्यामन्तर्दधे तदा
नारायणश्च भगवानसृजद्विविधाः प्रजाः। दैत्ययोर्मेदसा छन्ना सर्वा राजन्वसुन्धरा
तदाप्रभृति कौन्तेय मेदिनीति स्मृता मही। प्रभावात्पद्मनाभस्य शाश्वती च कृता नृणाम्
प्रादुर्भावसहस्राणि समतीतान्यनेकशः। यथाशक्ति तु वक्ष्यामि शृणु तान्कुरुनन्दन
पुरा कमलनाभस्य स्वपतः सागराम्भसि। पुष्करे यत्र सम्भूता देवा ऋषिगणैः सह
एष पौष्करिको नाम प्रादुर्भावः प्रकीर्तितः। पुराणैः कथ्यते यत्र वेदश्रुतिसमाहितः
वाराहस्तु श्रुतिसुखः प्रादुर्भावो महात्मनः। यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः
उज्जहार महीं तोयात्सशैलवनकाननाम्। वेदपादो यूपदंष्ट्रः क्रतुर्दन्तश्चितीमुखः
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः। अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः
आज्यनासः स्रुवं तुण्डं सामघोषस्वनो महान्। धर्मसत्यमयः श्रीमान्कर्मविक्रमसत्कृतः
प्रायश्चित्तमुखो धीरः पशुजानुर्महावृषः। औद्गात्रहोमलिङ्गोऽसौ पशुबीजमहौषधिः
बाह्यन्तरात्मा मन्त्रास्थिविकृतः सौम्यदर्शनः। वेदिस्कन्धो हविर्गन्धो हव्यकव्याभिवेगवान्
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरूर्जितः। दक्षिणाहृदयो योगी महाशास्त्रमयो महान्
उपाकर्मोष्ठरुचकः प्रावर्ग्यावर्तभूषणः। शालापत्नीसहायो वै मणिशृङ्गसमुच्छ्रितः
एवं यज्ञवराहो वै भूत्वा विष्णुः सनातनः। महीं सागरपर्यन्तां सशैलवनकाननाम्
कार्णवजले भ्रष्टामेकार्णवगतः प्रभुः। मज्जन्तीं सलिले तस्मिन्स्वदेवीं पृथिवीं तदा
उज्जहार विषाणेन मार्गण्डेयस्य पश्यतः। शृङ्गेण यः समुद्धृत्य लोकानां हितकाम्यया
सहस्रशीर्षो देवेशो निर्ममे जगतीं प्रभुः। एवं यज्ञवराहेण भूतभव्यभवात्मना
उद्धृता पृथिवी देवी पूज्या वै सागराम्बरा। निहता दानवाः सर्वे देवदेवेन विष्णुना
वाराहः कथितो ह्येष नारसिंहमतो शृणु। यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः
दैत्येन्द्रो बलवान्त्राजन्सुरारिर्बलगर्वितः। हिरण्यकशिपुर्नाम आसीत्रैलोक्यकण्टकः
दैत्यानामादिपुरुषो वीर्येणाप्रतिमो बली। प्रविश्य जलधं राजंश्चकार तप उत्तमम्
दशवर्षसहस्राणि शतानि दश पञ्च च। व्रतोपवासतस्तस्थौ स्याणुमौनव्रतो दृढः