म्नैवामन्त्र्य राजेन्द्र चेदिराजमरिन्दमम्। भीमकर्मा ततो भीष्णो भूयः स इतमब्रवीत्
वर्तमानामतीतां च शृणु राजन्युधिष्ठिर
ईश्वरस्योत्तमस्यैनां कर्मणां गहनां गतिम्। अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः
पुरा नारायणो देवः स्वयम्भूः प्रपितामहः। सहस्रशीर्षः पुरुषो ध्रवोऽनन्तः सनातनः
सहस्रास्यः सहस्राश्चः सहस्रचरणो विभुः। सहस्रवाहुः सर्वज्ञो देवो नामसहस्रवान्
सहस्रमुकुटो देवो विश्वरूपो महाद्युतिः। अनेकवर्णो देवादिरव्यक्ताद्वै परे स्थितः
असृजत्सलिलं पूर्वं स च नारायणः प्रभुः। ततस्तु भगवांस्तोये ब्रह्माणमसृजत्स्वयम्
ब्रह्मा चतुर्मुखो लोकान्सर्वांस्तानसृजत्स्वयम्। आदिकाले पुरा ह्येवं सर्वलोकस्य चोद्भवः। पुरा यः प्रलये प्राप्ते नष्टे स्थावरजङ्गमे
ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे। आभूतसम्प्लवे प्राप्ते प्रलीने प्रकृतौ महान्
एकस्मिष्ठति सर्वात्मा स तु नारायणः प्रभुः। नारायणस्य चाङ्गानि सर्वदैवानि भारत
शिरस्तस्य दिवं राजन्नाभिः खं चरणौ मही। अश्विनौ कर्णयोर्देवौ चक्षुषी शशिभास्करौ
इन्द्रवैश्वानरौ देवौ मुखं तस्य महात्मनः। अन्यानि सर्वदैवानि सर्वाङ्गानि महात्मनः
सर्वं चापि हरौ संस्थं सूत्रे मणिगणा इव। आभूतसम्प्लवान्तेऽथ दृष्ट्वा सर्वं तमोन्वितम्
नारायणो महायोगी सर्वज्ञः परमात्मवान्। ब्रह्मभूतस्तदात्मानं ब्रह्मणमसृजत्स्वयम्
सोऽध्यक्षः सर्वभूतानां प्रभूतप्रभवोऽच्युतः। सनत्कुमारं रुद्रं च सप्तर्षीश्च तपोधनात्
सर्वमेवासृजद्ब्रह्मा तथा लोकांस्तथा प्रजाः। ते च तद्व्यसृजंस्तत्र प्राप्तकाले युधिष्ठिर
तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम्। कल्पानां बहुकोट्यश्चसमतीतास्तु भारत
आभूतसम्प्लवाश्चैव बहुधाऽद्धाऽपचक्रमुः। मन्वन्तरयुगा राजन्सङ्कल्पो भूतसम्प्लवाः
चक्रवत्परिवर्तन्ते सर्वं विषमुखं जगत्। सृष्ट्वा चतुर्मुखं देवं देवो नारायणः प्रभुः
स लोकानां हितार्थाय क्षीरोदे वसति प्रभुः। ब्रह्मा च सर्वलोकानां लोकस्य च पितामहः
ततो नारायणो देवः सर्वस्य प्रपितामहः
अव्यक्तो व्यक्तलिङ्गस्थो य एव भगवान्प्रभुः। नरनारायणो भूत्वा हरिरासीद्युधिष्ठिर
ब्रह्मा च शक्रः सूर्यश्च धर्मश्चैव सनातनः। बहुशः सर्वभूतात्मा प्रादुर्भवति कार्यतः। प्रादुर्भावांस्तु वक्ष्यामि दिव्यान्देवगणैर्युतान्
सुप्त्वा युगसहस्रं स प्रादुर्भवति कार्यवान्। अनेकबहुसाहस्रैर्देवदेवो जगत्पतिः
ब्रह्माणं कपिलं चैव परमेष्ठिं तथैव च। देवान्सप्तर्षिभिश्चैव शङ्करं च महायशाः
सनत्कुमारं भगवान्मनुं चैव प्रजापतिम्। पुरा चक्रे च देवादिः प्रदीप्ताग्निसमप्रभः
येन चार्णवमध्यस्थौ नष्टेस्थावरजङ्गमे। नष्टदेवासुरवरे प्रनष्टोरगराक्षसे
योद्धुकामौ सुदुर्धर्षौ भ्रातरौ मधुकैठभौ। हतौ भगवता तेन ततो दत्त्वा वरं परम्
भूमिं बद्ध्वा कृतौ पूर्वावजेयौ द्वौ महाऽसुरौ। तौ कर्णमलसंभूतौ विष्णोस्तस्य महात्मनः
महार्णवे प्रस्वपतः शैलराजसमौ स्थितौ। तौ विवेश स्वयं वायुर्ब्रह्मणा साधु चोदितः