दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा। संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताऽच्युते
तमिमं लोकसम्पन्नमाचार्यं पितरं गुरुम्। अर्घ्यमर्चितमर्चामः सर्वे सङ्क्षन्तुमर्हथ
ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः। सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः
कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः। कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम्
एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः। परश्च सर्वभूतेभ्यस्तस्मात्पूज्यतमोऽच्युतः
द्धिर्मनो महद्वायुस्तेजोऽभः खं मही च या। चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम्
आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये। दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्
एष रुद्रश्च सर्वात्मा ब्रह्मा चैव सनातनः। अक्षरं क्षररूपेण मानुषत्वमुपागतः
अग्निहोत्रमुखा वेदा गायत्री च्छन्दसां मुखम्। राजा मुखं मनुष्याणां नदीनां सागरो मुखम्
नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम्। पर्वतानां मुखं मेरुर्गरुडः पततां मुखम्
ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः। सदेवकेषु लोकेषु भगवान्केशवो मुखम्
अयं तु पुरुषो बालः शिशुपालो न बुध्यते। सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते
यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः। स वै पश्येद्यथा धर्मं न तथा चेदिराडयम्
सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु। को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्
अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति। दुष्कृतायां यथान्यायं तथाऽयं कर्तुमर्हति
गाङ्गेयेनैवमुक्तस्तु शिशुपालश्चुकोप तम्। क्रुद्धं सुनीथं दृष्ट्वाऽथ सहदेवोऽब्रवीत्तदा
मतिपूर्वमिदं सर्वं चेदिराज मया कृतम्। तन्मे निगदतस्तत्त्वं कारणादत्र मे शृणु
स पार्थिवानां सर्वेषां गुरुः कृष्णोऽपरो न हि। तस्मादभ्यर्चितोऽस्माभिः सर्वे संमन्तुमर्हथ
यो वा सहते कश्चिद्राज्ञां सबलवाहनः। क्षिप्रं युद्धाय निर्यातु तस्य मूर्ध्न्याहितं पदम्
ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम्
मानिनां बलिनां राज्ञां मध्ये सन्दर्शिते पदे। एवमुक्ते सुनीथस्य सहदेवेन केशवे
स्वभावरक्ते नयने कोपाद्रक्ततरे कृते। तस्य कोपं समुद्भूतं ज्ञात्वा भीष्मः प्रतापवान्
आचचक्षे पुनस्तस्मै कृष्णस्यैवोत्तरान्गुणान्। स सुनीथं समामन्त्र्य तांश्च सर्वान्महीक्षितः
उवाच वदतां श्रेष्ठं इदं मतिमतां वरः। सहदेवेन राजानो यदुक्तं केशवं प्रति। तत्तथेति विजानीध्वं भूयश्चात्र विबोधत
ततो भीष्मस्य तच्छ्रुत्वा वचः काले युधिष्ठिरः। ज्ञापनार्थाय सर्वेषां भीष्मं पुनरथाब्रवीत्
विस्तरेणास्य देवस्य कर्माणीच्छामि सर्वशः। श्रोतुं भगवतस्तानि प्रब्रवीहि पितामह
कर्मणामानुपूर्वा च प्रादुर्भावाश्च ये विभोः। यथा च प्रकृतिः कृष्णे तन्मे ब्रूहि पितामह
एवमुक्तस्तदा भीष्मः प्रोवाच भरतर्षभ। युधिष्ठिरममित्रघ्नं तस्मिन्त्राजसमागमे
समक्षं वासुदेवस्य देवस्येव शतक्रतोः। कर्माण्यसुकराण्यन्यैराचचक्षे जनाधिप
शृण्वतां पार्थिवानां च धर्मराजस्य चान्तिके। इदं मतिमतां श्रेष्ठः कृष्णं प्रति विशाम्पते