किमन्यदवमनानाद्धे यदेनं राजसंसदि। अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम्। को हि धर्मच्युते पूजामेवं युक्तां नियोजयेत्
योयं वृष्णिकुले जातो राजानं हतवान्पुरा। जरासन्धं महात्मानमन्यायेन दुरात्मवान्
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात्। दर्शितं कृपणत्वं च कृष्णेऽर्घ्यस्य निवेदनात्
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः। ननु त्वयाऽपि बोद्धव्यं यां पूजां माधवार्हसि
अथवा कृपणैरेतामुपनीतां जनार्दन। पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि
अयुक्तामात्मनः पूजां त्वं पुनर्बहुमन्यसे। हविषः प्राप्य निष्यन्दं प्राशिता श्वेव निर्जने
न त्वं पार्थिवेन्द्राणामपमानः प्रयुज्यते। त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम्। अराज्ञो राजवत्पूजा तथा ते मधुसूदन
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः। वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम्
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात्। निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्। उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्। अधर्मश्च परो राजन्पारुष्यं च निरर्थकम्
न हि धर्मं परं जातु नावबुध्येत पार्थिवः। भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा
पश्य चैतान्महीपालांस्त्वत्तो वृद्धतरान्बहून्। मृष्यन्ते चार्हणां कृष्णे तद्वत्वं क्षन्तुमर्हसि
वेद तत्त्वेन कृष्णं हि भीष्णश्चेदिपते भृशम्। न ह्येनं त्वं तथा यथैनं वेद कौरवः
नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम्। लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः। यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः
अस्यां हि समितौ राज्ञामेकमप्यजितं युधि। न पश्यामि महीपालं सात्वतीपुत्रतेजसा
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः। त्रयाणामपि लोकानामर्चनीयो महाभुजः
कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः। जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम्
तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान्। एवं वक्तुं न चार्हस्त्वं मा तेऽभूद्बुद्धिरीदृशी
ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः। `यस्य राजन्प्रभावज्ञाः पुरा सर्वे च रक्षिताः'। तेषां कथयतां शौरेरहं गुणवतो गुणान्
समागतानामश्रौषं बहून्बहुमतान्सताम्। कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः
बहृशः कथ्यमानानि नरैर्भूयः श्रुतानि मे। न केवलं वयं कामाच्चेदिगज जनार्दनम्
न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन। अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम्
यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुञ्ज्महे न च कश्चिदिहास्माभिः सुवालोप्यपरीक्षितः
गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः। ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः
वैश्यानां धान्यधनवाञ्शूद्राणामेव जन्मतः। पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ
वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा। नृणां लोके हि कोऽन्योस्ति विशिष्टः केशवादृते