दहेदङ्गारवत्पुत्रं तं विद्याद्ब्राह्मणर्षभम्। विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा
प्रोवाच चैन विनता पुत्रहार्दादिदं वचः। जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्
पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः। जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा
पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः
शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्। `विष्णुः सर्वगतः सर्वमह्गानि तव चैव ह।' अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा
इहासीना भविष्यामि स्वस्तिकारे रता सदा। अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये
ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात। ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः
स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत्। समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन्
ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट्। ततो निषादास्त्वरिताः प्रवव्रजु- र्यतो मुखं तस्य भुजंगभोजिनः
तदाननं विवृतमतिप्रमाणव- त्समभ्ययुर्गगनमिवार्दिताः खगाः। सहस्रशः पवनजोविमोहिता यथा।ञनिलप्रचलितपादपे वने
ततः खगो वदनममित्रतापनः समाहरत्परिचपलो मत्बलाः। निषूदयन्बहुविधमत्स्यजीविनो बभुक्षितो गगनचरेश्वरस्तदा
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया। दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्। न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा
ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत। निषादी मम भार्येयं निर्गच्छतु मया सह
एतामपि निषादीं त्वं परिगृह्याशु निष्पत। तूर्णं संभावयात्मानमजीर्णं मम तेजसा
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा। वर्धयित्वा च गरुडमिष्टं देशं जगाम ह
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट्। वितत्य पक्षावाकाशमुत्पपात मनोजवः
ततोऽपश्यत्स्वपितरं पृष्टश्चाख्यातवान्पितुः। यथान्यायममेयात्मा तं चोवाच महानृषिः
कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत। कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु।। `क्व गन्तास्यतिवेगेन मम त्वं वक्तुमर्हसि
माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम्। न हि मे कुशलं तात भोजने बहुले सदा
अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम्। महातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै
मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह। न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः
तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे। यद्भुक्त्वाऽमृतमाहर्तुं समर्तः स्यामहं प्रभो
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्
यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः। तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यसोषतः
तन्मे तत्त्वं निबोधस्य यत्प्रमाणौ च तावुभौ। `शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम्
पित्रोरर्थविभागे वै समुत्पन्नां पुराण्डज।' आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः। स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः
विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः। अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः
विभागे बहवो दोषा भविष्यन्ति महातपः।' विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः। ततो विभक्तास्त्वन्योन्यं नाद्रियन्तेऽर्थमोहिताः