अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे। कथं कृष्णस्त्वया राजन्नर्चितः कुरुनन्दन
दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे। कृपे च भारताचार्ये कथं कृष्णस्त्वयाऽर्चितः
द्रुमं कम्पुरुषाचार्यमतिक्रम्य तथाऽर्चितः। भीष्मके चैव दुर्धर्षे पाण्डुवत्कृतलक्षणे
नृपे च रुक्मिणि श्रेष्ठे एकलव्ये तथैव च। शल्ये मद्राधिपे चैव कथं कृष्णस्त्वयार्चितः
अयं च सर्वराज्ञां वै बलश्लाघी महाबलः। जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत
येनात्मबलमाश्रित्य राजानो युधि निर्जिताः। तं च कर्णमतिक्रम्य कथं कृष्णस्त्वयार्चितः
नैवर्त्विङ्नैव चाचार्यो न राजा मधुसूदनः। अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया
अथवाऽभ्यर्चनीयोऽयं युष्माकं मधुसूदनः। किं राजभिरिहानीतैरवमानाय भारत
वयं तु न भयादस्य कौन्तेयस्य महात्मनः। प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात्
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः। करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते
किमन्यदवमनानाद्धे यदेनं राजसंसदि। अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम्। को हि धर्मच्युते पूजामेवं युक्तां नियोजयेत्
योयं वृष्णिकुले जातो राजानं हतवान्पुरा। जरासन्धं महात्मानमन्यायेन दुरात्मवान्
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात्। दर्शितं कृपणत्वं च कृष्णेऽर्घ्यस्य निवेदनात्
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः। ननु त्वयाऽपि बोद्धव्यं यां पूजां माधवार्हसि
अथवा कृपणैरेतामुपनीतां जनार्दन। पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि
अयुक्तामात्मनः पूजां त्वं पुनर्बहुमन्यसे। हविषः प्राप्य निष्यन्दं प्राशिता श्वेव निर्जने
न त्वं पार्थिवेन्द्राणामपमानः प्रयुज्यते। त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम्। अराज्ञो राजवत्पूजा तथा ते मधुसूदन
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः। वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम्
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात्। निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा
ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत्। उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः
नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान्। अधर्मश्च परो राजन्पारुष्यं च निरर्थकम्
न हि धर्मं परं जातु नावबुध्येत पार्थिवः। भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा
पश्य चैतान्महीपालांस्त्वत्तो वृद्धतरान्बहून्। मृष्यन्ते चार्हणां कृष्णे तद्वत्वं क्षन्तुमर्हसि
वेद तत्त्वेन कृष्णं हि भीष्णश्चेदिपते भृशम्। न ह्येनं त्वं तथा यथैनं वेद कौरवः
नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम्। लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते
क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः। यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः
अस्यां हि समितौ राज्ञामेकमप्यजितं युधि। न पश्यामि महीपालं सात्वतीपुत्रतेजसा
न हि केवलमस्माकमयमर्च्यतमोऽच्युतः। त्रयाणामपि लोकानामर्चनीयो महाभुजः