नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु। महीपतिषु कौरव्य राजवत्पार्थिवार्हणम्
नायं युक्तः समाचारः पाण्डवेषु महात्मसु। यत्कामाद्देवकीपुत्रं पाण्डवार्चितवानसि
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः। अयं तत्राभ्यतिक्रान्तो ह्यापगेयोऽल्पदर्शनः
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया। भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम्
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम्। अर्हणामर्हति तथा यथा युष्माभिरर्चितः
अथवा मन्यसे कृष्णं स्थविरं कुरुपुङ्गवः। वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः
अथवा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान्। द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम्
आचार्यं मन्यसे कृष्णमथवा कुरुनन्दन। द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि
ऋत्विजं मन्यसे कृष्णमथवा कुरुनन्दन। द्वौपायने स्थिते वृद्धे कथं कृष्णोऽर्चितस्त्वया
भीष्मे शान्तनवे राजन्स्थिते पुरुषसत्तमे। स्वच्छन्दमृत्युके राजन्कथं कृष्णोऽर्चितस्त्वया
अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे। कथं कृष्णस्त्वया राजन्नर्चितः कुरुनन्दन
दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे। कृपे च भारताचार्ये कथं कृष्णस्त्वयाऽर्चितः
द्रुमं कम्पुरुषाचार्यमतिक्रम्य तथाऽर्चितः। भीष्मके चैव दुर्धर्षे पाण्डुवत्कृतलक्षणे
नृपे च रुक्मिणि श्रेष्ठे एकलव्ये तथैव च। शल्ये मद्राधिपे चैव कथं कृष्णस्त्वयार्चितः
अयं च सर्वराज्ञां वै बलश्लाघी महाबलः। जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत
येनात्मबलमाश्रित्य राजानो युधि निर्जिताः। तं च कर्णमतिक्रम्य कथं कृष्णस्त्वयार्चितः
नैवर्त्विङ्नैव चाचार्यो न राजा मधुसूदनः। अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया
अथवाऽभ्यर्चनीयोऽयं युष्माकं मधुसूदनः। किं राजभिरिहानीतैरवमानाय भारत
वयं तु न भयादस्य कौन्तेयस्य महात्मनः। प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात्
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः। करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते
किमन्यदवमनानाद्धे यदेनं राजसंसदि। अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम्। को हि धर्मच्युते पूजामेवं युक्तां नियोजयेत्
योयं वृष्णिकुले जातो राजानं हतवान्पुरा। जरासन्धं महात्मानमन्यायेन दुरात्मवान्
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात्। दर्शितं कृपणत्वं च कृष्णेऽर्घ्यस्य निवेदनात्
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः। ननु त्वयाऽपि बोद्धव्यं यां पूजां माधवार्हसि
अथवा कृपणैरेतामुपनीतां जनार्दन। पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि
अयुक्तामात्मनः पूजां त्वं पुनर्बहुमन्यसे। हविषः प्राप्य निष्यन्दं प्राशिता श्वेव निर्जने
न त्वं पार्थिवेन्द्राणामपमानः प्रयुज्यते। त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम्। अराज्ञो राजवत्पूजा तथा ते मधुसूदन
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः। वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम्