आरिराधयिषुर्धर्मः पूजयित्वा द्विजोत्तमान्। महदादित्यसङ्काशमासनं च जगत्पतेः। ददौ नासादितं कैश्चित्तस्मिन्नुपविवेश सः
ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम्। क्रियतामर्हणं राज्ञां यथार्हमिति भारत
आचार्यमृत्विजं चैव संयुजं च युधिष्ठिर। स्नातकं च प्रियं प्राहुः षडर्घार्हान्नृपं तथा
एतानर्घ्यानभिगतानाहुः संवत्सरोषितान्। त इमे कालपूगस्य महतोऽस्मानुपागताः
एषामेकैकशो राजन्नर्घ आनीयतामिति। अथ तैषां वरिष्ठाय समर्थायोपनीयताम्
कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन। उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह
ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य वीर्यवान्। वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि
एष ह्येषां समस्तानां तेजोबलपराक्रमैः। मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः
असूर्यमिव सूर्येण निर्वातमिव वायुना। भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः
तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान्। उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम्
गामर्घ्यं मधुपर्कं च ह्यानीयोपाहरत्तदा। एतस्मिन्नन्तरे राजन्निदमासीत्तदाऽद्भुतम्
तां दृष्ट्वा क्षत्रियाः सर्वे पूजां कृष्णस्य भूयसीम्। सम्प्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्
प्रतिजग्राह तां कृष्णः शास्त्रदृष्टेन कर्मणा। शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे
उपालभ्य स भीष्मं च धर्मराजं च संसदि। अवाक्षिपद्वासुदेवं चेदिराजो महाबलः
तेषामाकारभावज्ञः सहदेवो न चक्षमे। मानिनां बलिनां राज्ञां पुरुः सन्दर्शिते पदे
पुष्पवृष्टिर्महत्यासीत्सहदेवस्य मूर्धनि। जन्मप्रभृति वृष्णीना सुनीथः शत्रुरब्रवीत्
प्रष्टा वियोनिजो राजा प्रतिवक्ता नदीसुतः। प्रतिग्रहीता गोपालः प्रदाता च वियोनिजः
सदस्या मूकवत्सर्वे आसतेऽत्र किमुच्यते। इत्युक्त्वा स विहस्याशु पाण्डुं पुनरब्रवीत्
अतिपश्यसि वा सर्वान्न वा पश्यसि पाण्डव। तिष्ठत्स्वन्येषु पूज्येषु गोपमर्चितवानसि
एते चैवोभये तात कार्यस्य तु विनाशके। अतिदृष्टिरदृष्टिर्वा तयोः किं त्वं समास्थितः
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु। महीपतिषु कौरव्य राजवत्पार्थिवार्हणम्
नायं युक्तः समाचारः पाण्डवेषु महात्मसु। यत्कामाद्देवकीपुत्रं पाण्डवार्चितवानसि
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः। अयं तत्राभ्यतिक्रान्तो ह्यापगेयोऽल्पदर्शनः
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया। भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम्
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम्। अर्हणामर्हति तथा यथा युष्माभिरर्चितः
अथवा मन्यसे कृष्णं स्थविरं कुरुपुङ्गवः। वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः
अथवा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान्। द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम्
आचार्यं मन्यसे कृष्णमथवा कुरुनन्दन। द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि
ऋत्विजं मन्यसे कृष्णमथवा कुरुनन्दन। द्वौपायने स्थिते वृद्धे कथं कृष्णोऽर्चितस्त्वया
भीष्मे शान्तनवे राजन्स्थिते पुरुषसत्तमे। स्वच्छन्दमृत्युके राजन्कथं कृष्णोऽर्चितस्त्वया