अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम्। आदास्यति पुनः क्षत्रमेवं बलसमन्वितम्
इत्येतां नारदश्चिन्तां चिन्तयामास सर्ववित्। हरिं नारायणं ज्ञात्वा यज्ञैरीज्यं तमीश्वरम्
तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः। महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः
ततः समुदिता मुख्यैर्गुणैर्गुणवतां वराः। बहवो भावितात्मानः पृथक्पृथगरिन्दमाः
आत्मकृत्यमिति ज्ञात्वा पाञ्चालास्तत्र सर्वशः। समीयुर्वृष्णयश्चैव तदाऽनीकाग्रहारिणः
दाराः सजनामात्या वहन्तो रत्नसञ्चयान्। विकृष्टत्वाच्च देशस्य गुरुभारतया च ते
ययुः प्रमुदिताः पश्चाद्भगवन्तं समन्वयुः। बलशेषं समुदितं परिगृह्य समन्ततः
अजश्चक्रायुधः शौरिरमित्रगणमर्दनः। बलाधिकारे निक्षिप्य संमान्यानकदुन्दुभिम्
सम्प्रायाद्यादवश्रेष्ठो जयमाने युधिष्ठिरे। उच्चावचमुपादाय धर्मराजाय माधवः
धनौघं पुरतः कृत्वा खाण्डवप्रस्थमाययौ। तत्र यज्ञगतान्पश्यंश्चैद्यवर्गसमागतान्
भूमिपालगणान्सर्वान्सप्रभानिव तोयदान्। घकायान्निवसतो यूथपानिव यूथपः
बलिनः सिंहसङ्काशान्महीमावृत्य तिष्ठतः। ततो जनौघसम्बाधं राजसागरमव्ययम्
नादयन्रथघोषेण ह्युपायान्मधुसूदनः। असूर्यमिव सूर्येण निवातमिव वायुना
कृष्णेन समुपेतेन जहर्षे भारतं पुरम्। ब्राह्मणक्षत्रियाणां तु पूजार्थं ह्यर्थधर्मवित्
सहदेवो विशेषज्ञो माद्रीपुत्रः कृतोऽभवत्। भगवन्तं तु भूतानां भास्वन्तमिव तेजसा
विशन्तं यज्ञभूमिं तां सितस्यावरजं प्रभुम्। तेजोराशिमृषिं विप्रमदृश्यं वै विजानताम्
वयोधिकानां वृद्धानां मार्गमात्मनि तिष्ठताम्। जगतस्तस्थुषश्चैव प्रभवाप्ययमच्युतम्
अनन्तमन्तं शत्रूणाममित्रगणमर्दनम्। प्रभवं सर्वभूतानामापत्स्वभयमच्युतम्
भविष्यं भावनं भूतं द्वारवत्यामरिन्दमम्। स दृष्ट्वा कृष्णमायान्तं प्रतिपूज्यामितौजसम्
यथार्हं केशवे वृत्तिं प्रत्यपद्यत पाण्डवः। ज्यैष्ठ्यकानिष्ठ्यसंयोगं सम्प्रधार्य गुणागुणैः
आरिराधयिषुर्धर्मः पूजयित्वा द्विजोत्तमान्। महदादित्यसङ्काशमासनं च जगत्पतेः। ददौ नासादितं कैश्चित्तस्मिन्नुपविवेश सः
ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम्। क्रियतामर्हणं राज्ञां यथार्हमिति भारत
आचार्यमृत्विजं चैव संयुजं च युधिष्ठिर। स्नातकं च प्रियं प्राहुः षडर्घार्हान्नृपं तथा
एतानर्घ्यानभिगतानाहुः संवत्सरोषितान्। त इमे कालपूगस्य महतोऽस्मानुपागताः
एषामेकैकशो राजन्नर्घ आनीयतामिति। अथ तैषां वरिष्ठाय समर्थायोपनीयताम्
कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन। उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह
ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य वीर्यवान्। वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि
एष ह्येषां समस्तानां तेजोबलपराक्रमैः। मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः
असूर्यमिव सूर्येण निर्वातमिव वायुना। भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः
तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान्। उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम्