इडाज्यहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः। तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः
यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः। ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदाऽन्विताः
ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह। अन्तर्वेदीं प्रविविशुः सत्कारार्हा महर्षयः
नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः। समासीनाः शुशुभिरे सहराजर्षिभिस्तदा
समेता ब्रह्मभवने देवा देवर्षयस्तथा। कर्मान्तरमुपासन्तो जजल्पुरमितौजसः
एवमेतन्न चाप्येवमेवं चैतन्न चान्यथा। इत्यूचुर्बहवस्तत्र वितण्डां वै परस्परम्
कृशानर्थांस्ततः केचिदकृशांस्तत्र कुर्वते। अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चयैः
तत्र मेधाविनः केचिदर्थमन्यैरुदीरितम्। विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम्
केचिद्धर्मार्थकुशलाः केचित्तत्र महाव्रताः। रेमिरे कथयन्तश्च सर्वभाष्यविदां वराः
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः। आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवायता
न तस्यां सन्निधौ शूद्रः कश्चिदासीन्न चाव्रती। अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने
तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम्। तुतोष नारदः पश्यन्धर्मराजस्य धीमतः
अथ चिन्तां समापेदे स मुनिर्मनुजाधिप। नारदस्तु तदा पश्यन्सर्वक्षत्रसमागमम्
सस्मार च पुरावृत्तां कथां तां पुरुषर्षभ। अंशावतरणे याऽसौ ब्रह्मणो भवनेऽभवत्
देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन। नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम्
साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः। प्रतिज्ञां पालयंश्चेमां जातः परपुरञ्जयः
न्दिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम्। न्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ
इति नारायणः शम्भुर्भगवान्भूतभावनः। आदिश्य विबुधान्सर्वानजायत यदुक्षये
क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः। परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट्
यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते। सोयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः
अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम्। आदास्यति पुनः क्षत्रमेवं बलसमन्वितम्
इत्येतां नारदश्चिन्तां चिन्तयामास सर्ववित्। हरिं नारायणं ज्ञात्वा यज्ञैरीज्यं तमीश्वरम्
तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः। महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः
ततः समुदिता मुख्यैर्गुणैर्गुणवतां वराः। बहवो भावितात्मानः पृथक्पृथगरिन्दमाः
आत्मकृत्यमिति ज्ञात्वा पाञ्चालास्तत्र सर्वशः। समीयुर्वृष्णयश्चैव तदाऽनीकाग्रहारिणः
दाराः सजनामात्या वहन्तो रत्नसञ्चयान्। विकृष्टत्वाच्च देशस्य गुरुभारतया च ते
ययुः प्रमुदिताः पश्चाद्भगवन्तं समन्वयुः। बलशेषं समुदितं परिगृह्य समन्ततः
अजश्चक्रायुधः शौरिरमित्रगणमर्दनः। बलाधिकारे निक्षिप्य संमान्यानकदुन्दुभिम्
सम्प्रायाद्यादवश्रेष्ठो जयमाने युधिष्ठिरे। उच्चावचमुपादाय धर्मराजाय माधवः
धनौघं पुरतः कृत्वा खाण्डवप्रस्थमाययौ। तत्र यज्ञगतान्पश्यंश्चैद्यवर्गसमागतान्