आगच्छत्पाण्डवेयस्य यज्ञं समरदुर्मदः। रामश्चैवानिरुद्धश्च कङ्कश्च सहसारणः
गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान्। उल्मुको निशठश्चैव वीरश्चाङ्गावहस्तथा
वृष्णयो निखिलाश्चान्ये समाजग्मुर्महारथाः। एते चान्ये च बहवो राजानो मध्यदेशजाः
आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम्। ददुस्तेषामावसथान्धर्मराजस्य शासनात्
बहुभक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान्। तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम्
सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः। कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान्
सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः। सुवर्णजालसंवीतान्मणिकुट्टिमभूषितान्
सुखारोहणसोपानान्महासनपरिच्छदान्। स्नग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः
हंसेन्दुवर्णसदृशानायोजनसुदर्शनान्। असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः
बहुधातुनिबद्धाङ्गान्हिमवच्छिखरानिव। विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम्
वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम्। तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महर्षिभिः। भ्राजते स्म तदा राजन्नाकपृष्ठं यथाऽमरैः
पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः। अभिवाद्य ततो राजन्निदं वचनमब्रवीत्
भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती। अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः
इदं वः सुमहच्चैव यदिहास्ति धनं मम। प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रितः
एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः। युयोज स यथायोगमधिकारेष्वनन्तरम्
पङ्क्त्यारोपणकार्ये च उच्छिष्टापनये पुनः। भोजनावेक्षणे चैव युयुत्सुं समयोजयत्
भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत्। परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान्
राज्ञां तु प्रतिपूजार्थं सञ्जयं न्ययोजयत्। कृताकृतपरिज्ञाने भीष्णद्रोणौ महामती
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे। दक्षिणानां च वै दाने कृपं राजा न्ययोजयत्
तथाऽऽन्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत्। बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः। नकुलेन समानीताः स्वामिवत्तत्र रेमिरे
क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित्। दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः
कुन्ती साध्वी च गान्धारी स्त्रीणां कुर्वन्ति चार्चनम्।। अन्याः सर्वाः स्नुषास्तासां सन्देशं यान्तु माचिरम्। तिष्ठेत्कृष्णान्तिके सोयमर्जुनः कार्यसिद्धये
चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत्। सर्वलोकसमावृत्तः पिप्रीषुः फलमुत्तमम्
द्रष्टुकामः सभां चैव धर्मराजं यधिष्ठिरम्। न कश्चिदाहरत्तत्र सहस्रावरमर्हणम्
रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत्। कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात्
यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम्। भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः
लोकराजविमानैश्च ब्राह्मणावसथैः सह। कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा
विचित्रै रत्ववद्भिश्च ऋद्ध्या परमया युतैः। राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः। अशोभत सदो राजन्कौन्तेयस्य महात्मनः
ऋद्ध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः। षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता
सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत्। अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः। रत्नोपहारसम्पन्नो बभूव स समागमः