नकुलं हास्तिनपुरं भीष्माय भरतर्षभ। द्रोणाय धृतराष्ट्राय विदुराय कृपाय च। भ्रातृणां चैव सर्वेणां येऽनुरक्ता युधिष्ठिरे
ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम्। दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत
ज्येष्ठामूले अमावास्यां मृगाजिनसमावृतः। रौरवाजिनसंवीतो नवनीताक्तदेहवान्
दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः। जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः
भातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैः सह। क्षत्रियैश्च मनुष्येन्द्रैर्नानादेशसमागतैः
अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव। आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः। तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात्
बह्वन्नाच्छादनैर्युक्तान्सगणानां पृथक् पृथक्। सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः
तेषु ते न्यवसन्राजन्ब्राह्मणा नृपसत्कृताः। कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान्
भुञ्जतां चैव विप्राणां वदतां च महास्वनः। अनिशं श्रूयते तत्र मुदितानां महात्मनाम्
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति। एवम्प्रकाराः सञ्जल्पाः श्रूयन्तेस्मात्र नित्यशः
गवां शतसहस्राणि शयनानां च भारत। रुक्मस्य योषितां चैव धर्मराजः पृथक् ददौ
प्रावर्ततैव यज्ञः स पाण्डवस्य महात्मनः। पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे
तत आमन्त्रिता राजन्राजानः सत्कृतास्तदा। पुरेभ्यः प्रययुस्तेभ्यो विमानेभ्य इवामराः
ते वै दिग्भ्यः समापेतुः पार्थिवास्तत्र भारत। समादाय महार्हाणि रत्नानि विविधानि च
तच्छ्रुत्वा धर्मराजस्य यज्ञे यज्ञविदस्तदा। राजानः शतशस्तुष्टैर्मनोभिर्मनुर्षभ
बहु वित्तं समादाय विविधं पार्थिवा ययुः। द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम्
स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः। भीष्ममामन्त्रयाञ्चक्रे धृतराष्ट्रं च पाण्डवः
प्रयतः प्राञ्जलिर्भूत्वा भारतानानयत्तदा। धृतराष्ट्रं च भीष्मं च विदुरं च महामतिम्
दुर्योधनमुखांश्चैव भ्रातॄन्सर्वानथानयत्
सत्कृत्यामन्त्रिताः सर्वे ह्याचार्यप्रमुखास्ततः। प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरस्सराः
धृतराष्ट्रश्च भीष्मश्च विदुरस्च महामतिः। दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते। गान्धारराजः सुबलः शकुनिश्च महाबलः
अचलो वृषकश्चैव कर्णश्च रथिनां वरः। तथा शल्यश्च बलवान्बाह्लिकश्च महाबलः
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः। अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः
यज्ञसेनः सपुत्रश्च साल्वश्च वसुधाधिपः। प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महारथः
स तु सर्वैः सह म्लेच्छैः सागरानूपवासिभिः। पार्वतीयाश्च राजानो राजा चैव बृहद्बलः
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा। आकर्षाः कुन्तलाश्चैव गालवाश्चान्ध्रकास्तथा
द्राविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा। कुन्तिभोजो महातेजाः पार्थिवो गौरवाहनः
बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते। विराटः सह पुत्राभ्यां मावेल्लश्च महाबलः
राजानो राजपुत्राश्च नानाजनपदेश्वराः। शिशुपालो महावीर्यः सह पुत्रेण भारत